________________
प्रथमं विनयाध्ययनम् ।
श्रीउत्तरा-IX|सामाचारी चेयं । संयतः-साधुः भुञ्जीत-अश्नीयात् 'जय' ति यतमानः-सुरसुर-चबचब क-सुरुडुक-कुरुडुक-भुरुडुकादि-1 ध्ययनसूत्रे शब्दानकुर्वन् 'अप्परिसाडियं' परिसाटरहितमिति सूत्रार्थः ॥ ३५ ॥ यदुक्तम्-यतमान इति तत्र वाग्यतनामाहश्रीनैमिच- सुकडं ति सुपकं ति, सुच्छिन्नं सुहडे मडे । सुणिढिए सुलहि त्ति, सावजं वजए मुणी ॥ ३६॥ न्द्रीयवृत्तिः व्याख्या-सुकृतं-सुष्टु निर्वतितमन्नादि, सुपकं-घृतपूर्गादि, इतिः-उभयत्रोपदर्शने, सुच्छिन्नं-शाकपत्रादि, सुहृतं
सूपविलेपिकाऽऽदिनाऽमत्रकादेघृतादि, सुमृतं-घृतायेव सक्तुसूपादौ, सुनिष्ठितं-सुषु निष्ठां-रसप्रकर्षात्मिकां गतं, सुलष्टं॥१२॥
शोभनमोदनादि, अखण्डोज्वलसुस्वादुसिक्थत्वादिना इत्येवंप्रकारमन्यदपि सावधं वर्जयेद् मुनिः । यद्वा सुत्रु कृतं यदनेनाऽरातेः प्रतिकृतं, सुपकं पूर्ववत्, सुच्छिन्नोऽयं न्यग्रोधद्रुमादिः, सुहृतं कदर्यस्य धनं चौरादिभिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयं प्रासादादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वचो वर्जयेद् मुनिः । निरवा तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयमुत्प्रवाजयितुकामेभ्यो निजकेभ्यः शैक्षकः, सुमृतमस्य पण्डितमरणेन, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं । कारणतो वा प्रयत्नपकमित्यादि वदेदपीति सूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यद् भवति तद् दर्शयितुमाह
रमए पंडिए सासं, हयं भई व वाहए। बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥ ३७॥ व्याख्या-रमते-अभिरतिमान् भवति पण्डितान्-विनीतविनेयान् शासन्-आज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः । यमिव-अश्वमिव भद्रं-कल्याणावह वाहकः-अश्वंदमः । बालमज्ञं श्राम्यति-खिद्यते शासन, स हि सकृदुक्त एव कृत्येषु न प्रवर्तते, ततश्चेदं कुरु इदश्च मा इति पुनः पुनस्तच्छासनेन खिद्यते । गल्यश्वमिव वाहक इति सूत्रार्थः ॥ ३७ ॥ गुरुशिक्षणे बालस्याऽभिसन्धिमाह
OXOXOXOXOXOXOXOXOXOKeXX
॥१२॥