SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ | "भूयाई" ति 'भूतान्' तरून् , उक्तञ्च-"प्राणा द्वि-त्रि-चतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेया:, la हरिकेशमुनेः शेषाः सत्त्वाः प्रकीर्तिताः॥१॥" पृथिव्याद्युपलक्षणं चैतद् । 'विहेठमानाः' विविधं बाधमानाः, किम् ? इत्याह सौत्री 'भूयोऽपि' पुनरपि न केवलं पुरा किन्तु शुद्धिकालेऽपि जलानलादिजीवोपमर्दतः 'मन्दाः' जडाः 'प्रकुरुथ' प्रकर्षेणोपचिनुथ | या वक्तव्यता। 'पापम्' अशुभकर्म । अयमाशयः-कुशला हि कर्ममलविलयात्मिकां तात्त्विकीमेव शुद्धिं मन्यन्ते, भवदभिमतयाग-नाने च यूपादिपरिग्रहजलस्पर्शाविनाभावित्वेन भूतोपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, नातः तत्सम्भव इति कथं तद्धेतुकशुद्धिमार्गणं सुदृष्टं ते वदेयुः ?, तथा च वाचकः-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्ध्यात्मकं शुभम् । जलादिशौचं | यत्रेदं, मूढविस्मापनं हि तत् ॥१॥" इति सूत्रार्थः ॥३९॥ इत्थं तद्वचनतः समुत्पन्नशङ्कास्ते यागं प्रति तावदेवं पप्रच्छु: कहं चरे भिक्खु! वयं जयामो?, पावाई कम्माइं पणुल्लयामो। अक्खाहिणे संजय! जक्खपूइया!, कहं सुज8 कुसला वयंति?॥४०॥ व्याख्या-कथं केन प्रकारेण "चरे" त्ति प्राकृतत्वात् 'चरेमहि' यागार्थ प्रवर्तेमहि हे भिक्षो! वयम् ? तथा 'यजामः'। यागं कुर्मः कथमितियोगः, 'पापानि' अशुभानि कर्माणि "पणुल्लयामो" त्ति 'प्रणुदामः' प्रेरयामो येनेति गम्यते । 'आख्याहि' कथय 'नः' अस्माकं हे 'संयत !' यक्षपूजित!, किमुक्तं भवति ?-यो हि अस्मद्विदितः कर्मप्रणोदनोपायो यागरूपः स युष्माभिर्दूषितः इति भवन्त एवापरं यागमुपदिशन्तु, कथं 'स्विष्टं' शोभनं यजनं कुशला वदन्ति ? इति सूत्रार्थः॥४०॥ मुनिराह छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा। परिग्गहं इत्थीउ माण मायं, एयं परिन्नाय चरंति दंता ॥४१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy