SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ हरिकेशले सौत्री वक्तव्यता। खाण्याविकमपि नाऽर्चयामः । तथा मुड़ "सालिम" ति शालिमय शालिनिष्पन्नं 'कूरं" ओदनं नानाव्यञ्जनसंयुक्तमिति सूत्रायः॥ ३४ ॥ अन्यच इमं च मे अस्थि पमूयमन्नं, तं मुंजसु अम्ह अणुग्गहहा। बादंति पडिग्छति मत्तपाणं,मासस्स अ पारणए महप्पा ॥ ३५॥ व्याख्या-वं च प्रत्यक्षत एव परिहायमानं 'में मम 'अस्ति' विद्यते 'प्रभूतं' प्रचुरं 'अन्नं' मण्डकखण्डखाद्यादि समस मोजमं बद् भुज अस्माकमनुग्रहार्यम् । एवं च तेनोक्ते मुनिराह-'बाढम्' एवं कुर्मः 'इति' एवं युवाण इति शेषः, 'प्रतीच्छति' द्रव्याक्तिः शुद्धमिति गृहाति भकं पानं "मासस्स " ति मासादेव पारणके महात्मा इति सूत्रार्थः॥३५॥ तदा च वत्र यवमूत् तदाह तहियं गंधोक्यपुप्फवासं, दिवा तर्हि वसुहारा य युट्ठा। पहताओ दुंदुभीओ सुरेहिं, आगासे अहोदाणं च घुटुं॥३६॥ व्याख्या-"तहियं" ति 'तस्मिन्' यक्षपाटे, गन्धोदकं च पुष्पाणि च तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति सम्बन्धात् कृतमिति गम्यते । दिव्या' अतिश्रेष्ठा "तहिं" ति तस्मिन्नेव वसु-द्रव्यं तस्य धारा-सततपातजनिता सन्ततिः | वसुधारा सा च 'वृष्टे ति पातिता सुरैरित्यत्रापि सम्बश्यते। तथा प्रहताः 'दुन्दुभयः' देवानकाः सुरैः। तथा तैरेव आकाशे अहोदानं च 'घुष्टं' शब्दितमिति सूत्रार्थः ॥ ३६ ॥ तेऽपि ब्राह्मणा विस्मितमनस इदमाहुः सक्खं खु दीसह तवोविसेसो, ण दीसइ जाइविसेस कोई। सोवागपुत्तं हरिएससाहु, जस्सेरिसा इहि महाणुभागा ॥ ३७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy