________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १८१ ॥
उक्तञ्च केनचित् — “आत्मद्रुहममर्यादं, मूढमुज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥” किच-महाप्रसादा ऋषयो भवन्ति, "न हु" त्ति न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह -
पुचि इहि च अणागयं च, मणप्पदोसो ण मे अत्थि कोई । जक्खा हु वेयावडियं करेंति, तम्हा हु एते णिहता कुमारा ॥ ३२ ॥
व्याख्या - 'पूर्वं च ' पुरा 'इदानीं च' अधुना "अणागयं च" त्ति 'अनागते च' भविष्यति काले मनःप्रद्वेषो न | मेऽस्ति उपलक्षणत्वाद् आसीद् भविष्यति च 'कोऽपी'त्यल्पोऽपि । यक्षाः 'हुरि'ति यस्माद् वैयावृत्यं कुर्वन्ति " तम्हे" चि तस्मात् 'हुर' वधारणे, ततस्तस्मादेव हेतोरेते निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ||३२|| सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
अत्थं च धम्मं च वियाणमाणा, तुग्भे ण वि कुप्पह भूतिपन्ना । तुब्भं तु पाए सरणं उवेमो, समागया सबजणेण अम्हे ॥ ३३ ॥
व्याख्या – 'अर्थ च' अभिवेयं शास्त्राणामिति गम्यते, 'धर्मं च' यतिधर्म क्षान्त्यादिकं 'विजानन्तः' अवगच्छन्तो यूयं 'नाऽपि ' नैव कुप्यथ भूतिः -- रक्षा प्राणिरक्षकत्वेन प्रज्ञा - बुद्धिरेषामिति भूतिप्रज्ञाः, अतश्च "तुब्भं तु" त्ति युष्मा|कमेव पादौ शरणम् 'उपेमः' उपगच्छामः, समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ किञ्च— अच्छेमु ते महाभागा !, ण ते किंचि ण अश्चिमो । भुंजाहि सालिमं कूरं, णाणावंजणसंजयं ॥ ३४ ॥ व्याख्या – 'अर्चयामः' पूजयामः "ते" त्ति सुब्व्यत्ययात् त्वां हे महाभाग !, 'न' नैव तव 'किञ्चित्' चरणरे
द्वादशं हरिकेशी
याख्य
मध्ययनम् ।
हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८१ ॥