SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उ० अ० ३१ अवहेडियपिट्टिसउत्तमंगे, पसारियाबाहुअकम्मचेट्ठे । णिन्भेरियच्छे रुहिरं वमंते, उमुहे णिग्गयजीहणेत्ते ॥ २९ ॥ ते पासिया खंडिय कट्टभूए, विमणो विसन्नो अह माहणो सो । ईसिं पसाएइ सभारियाओ, हीलं च णिंदं च खमाह भंते ! ॥ ३० ॥ व्याख्या—अवहेठितानि - अधोनामितानि "पट्टि " त्ति पृष्ठं यावत् सन्ति-शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठ| सदुत्तमाङ्गाः मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माणि - अग्नौ समित्प्रक्षेपणादीनि तद्विषया | चेष्टा कर्मचेष्टा, अविद्यमाना कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितबाह्वकर्मचेष्टास्तान्, "निब्भेरिय” चि प्रसारितानि अक्षीणि- नयनानि येषां ते तथा तान्, रुधिरं वमतः "उडूंमुद्दे” त्ति ऊर्द्धमुखान्, निर्गतजिह्वानेत्रान् तान् दृष्ट्वा "खंडिय” त्ति सुपो लोपात् 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठोपमान् 'विमनाः' विचित्तः 'विषण्णः ' विषादं गतः, 'अथेति दर्शनानन्तरं ब्राह्मण: 'सः' इति रुद्रदेवनामा ऋषिं प्रसादयति 'सभार्याक : ' भार्यायुक्तः, कथम् ? इत्याह- 'हीलां च ' अवज्ञां 'निन्दां च' दोषोद्भावनं क्षमस्व भदन्त ! इति सूत्रद्वयार्थः ॥ २९-३०।। पुनः प्रसादनमेवाह बालेहिं मूढेहिं अयाणएहिं, जं हीलिया तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥ XCXCXX CXCXCXCXCXCXCXCXX व्याख्या- 'बालैः' शिशुभिः 'मूढैः' कषायमोहनीयवशगैः अत एव 'अझै : ' हिताहितविवेकविकलैः यद् हीलिताः " तस्स” त्ति सूत्रत्वात् तत् क्षमस्व भदन्त !, न हि अज्ञानाद्युपहतानामुपरि महात्मनां कोप:, अनुकम्पनीया एवामी । हरिकेशमुनेः सौत्री वक्तव्यता ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy