________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघु
वृत्तिः ।
॥ १८० ॥
सीसेण एवं सरणं उवेह, समागया सबजणेण तुम्हे ।
जइ इच्छह जीवियं वा धणं वा, लोगं पि एसो कुविओ डहेजा ॥ २८ ॥
व्याख्या — गिरिं नखैः 'खनथ' विदारयथ, 'अय:' लोहं दन्तैः खादथ, 'जाततेजसम्' अग्निं पादैः 'हथ' ताडयथ, | सर्वत्र इवार्थो द्रष्टव्यः । 'ये' यूयं 'भिक्षु' प्रक्रमादेनं 'अवमन्यध्वे ' अवधीरयथ, अनर्थफलत्वाद् भिक्ष्वपमानस्येति भावः ॥ कथमिदम् ? इत्याह – 'आशीविषः ' आशीविषलब्धिमान् - शापानुग्रहसमर्थ इत्यर्थः । कुतः पुनरयं एवंविधः ? यत उग्रतपा महर्षिः घोरव्रतो घोरपराक्रमश्च । यतश्चैवमतः 'अमिं' ज्वलनं 'वा' इवार्थो भिन्नक्रमश्च ततः 'प्रस्कन्दथेव' आक्रामथेव । केव ? “पयंगसेण” त्ति उपमार्थस्य गम्यमानत्वात् 'पतङ्गसेनेव' शलभसन्ततिरिव, यथा ह्यसौ तत्र पतन्ती आशु घातमाप्नोति एवं भवन्तोऽपीति भावः । 'ये' यूयं भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमय:, यूयं तु न केवलं न प्रयच्छत किन्तु तत्रापि "वह" त्ति 'विध्यथ' ताडयथेति ॥ तेषां तन्माहात्म्यमावेद्य कृत्योपदेश| माह – 'शीर्षेण' शिरसा 'एनं' मुनिं 'शरणं' त्राणम् 'उपेत' अभ्युपगच्छत, किमुक्तं भवति ? – शिरः प्रणाम पूर्वकमयमेवास्माकं शरणमिति प्रतिपद्यध्वम्, 'समागताः' मिलिताः सर्वजनेन सह यूयम्, यदीच्छत जीवितं वा धनं वा, नाऽस्मिन् कुपिते जीवितादिरक्षाक्षमं अन्यत् शरणमस्ति । किमित्येवम् ? अत आह— 'लोकमपि भुवनमपि एष कुपितो दहेत् । तथा च वाचकः - "कल्पान्तोप्रानलवत्, प्रज्वलनं तेजसैकतस्तेषाम्” तथा लौकिका अप्याहुः - " न तद् दूरं यदश्वेषु यच्चानौ यच्च मारुते । विषे च रुधिरे प्राप्ते, साधौ च कृतनिश्चये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ २६-२७-२८ ॥ सम्प्रति तत्पतिस्तान् दृष्ट्वा यदचेष्टत तदाह—
द्वादशं हरिकेशी
याख्य
मध्ययनम् ।
हरिकेशमुनेः सौत्री
वक्तव्यता ।
॥ १८० ॥