________________
XCXCXCXCX CXCXCXCX
अत आह— मा सर्वान् 'तेजसा' तपोमाहात्म्येन “भे" भवतः 'निर्धाक्षीत्' भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ २१-२२-२३ ॥ अत्रान्तरे मा भूदेतस्या वचनं अन्यथेति यद् यक्षः कृतवांस्तदाहएयाई तीसे वयणाई सोच्चा, पत्तीए भद्दाइ सुभासियाई । इसिस्स वेयावडिअट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूवा ठिअ अंतलिक्खे, असुरा तर्हि तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासितु भद्दा इणमाहु भुज्जो ॥ २५ ॥
व्याख्या— 'एतानि' अनन्तरोक्तानि वचनानि 'तस्याः' श्रुत्वा 'पत्न्याः ' भार्याया रुद्रदेवपुरोहितस्येति गम्यते, भद्रायाः 'सुभाषितानि' सूक्तानि वचनानीति योज्यते, ऋषेर्वैयावृत्त्यर्थं यक्षाः यक्षपरिवारस्य बहुत्वात् बहुवचनम्, कुमारान् | 'विनिवारयन्ति' विशेषेणोपहतिं कुर्वतो निराकुर्वन्ति ॥ तथा 'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः “ठिय" त्ति स्थिताः 'अन्तरिक्षे' नभसि 'असुराः' असुरभावान्वितत्वात्, 'तस्मिन्' यज्ञपाटे 'तं' उपद्रवकारिणं जनं ताडयन्ति । ततः | 'तान्' कुमारान् भिन्नदेहान् रुधिरं वमतो दृष्ट्वा भद्रा 'इदं' वक्ष्यमाणं "आहु” त्ति वचनव्यत्ययेन 'आह' ब्रूते 'भूयः' पुनरिति सूत्रद्वयार्थः ॥ २४-२५ ॥ किं तत् ? इत्याह
गिरिं नहिं खणह, अयं दंतेहिं खायह । जायतेयं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६ ॥ आसीविसो उग्गतवो महेसी, घोरघतो घोरपरक्कमो य ।
अगणिं व पक्खंद पयंगसेणा, जे भिक्खुयं भत्तकाले वहेह ॥ २७ ॥
Y-BY-BY
हरिकेशमुनेः
सौत्री वक्तव्यता ।