________________
द्वादशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
हरिकेशीयाख्यमध्ययनम्। हरिकेशमुनेः
सौत्री वक्तव्यता।
॥१७९॥
'हन्यमानं ताड्यमानम् , क्रुद्धान् कुमारान् 'परिनिर्वापयति' कोपामिविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥ २०॥ सा च तान् निर्वापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह
देवाभिओगेण णिओइएण, दिन्ना मु रन्ना मणसा ण झाया। णरिंददेविंदऽभिवं दिएणं, जेणामि वंता इसिणा स एसो॥२१॥ एसो हु सो उग्गतवो महप्पा, जितिंदिओ संजओ बंभयारी । जो मे तया णेच्छई दिनमाणी, पिउणा सयं कोसलिएण रन्ना ॥ २२॥ महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो अ।
मा एयं हीलह अहीलणिज्जं, मा सवे तेएण भेणिद्दहिज्जा ॥ २३॥ व्याख्या-देवस्य अभियोग:-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन “दिन्ना मु" त्ति दत्ताऽस्मि अहं 'राज्ञा' प्रक्रमात् कौशलिकेन, तथापि "मणस" त्ति अपेर्गम्यमानत्वात् 'मनसाऽपि' चित्तेनाऽपि 'न ध्याता' नाभिलषिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्रामिवन्दितेन, अत एव येनाऽस्मि अहं 'वान्ता' त्यक्ता 'ऋषिणा' मुनिना, स एष युष्माभिः यः कदर्थयितुमारब्धः, ततो न युक्तमेतदिति भावः ॥ पुनरिममेवाएं समर्थयितुमाह-एष एव स उग्रतपाः, अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यः "मे" त्ति मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयम्' आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञा । तदनेन निःस्पृह्त्वमुक्तम् ॥ पुनस्तन्माहात्म्यमाह-'महायशाः' अपरिमितकीर्तिः 'एषः' मुनिः 'महानुभागः' अतिशयाऽचिन्त्यशक्तिः 'घोरव्रतः' दुर्धरमहाव्रतः 'घोरपराक्रमश्च' कषायादिरिपुजयं प्रति रौद्रसामर्थ्यः, यतोऽयमीदृक् ततो मा “एयं” 'एनं' यति 'हीलयत' अवधूतं पश्यत अहीलनीयम् । किमिति ?
॥१७९॥