________________
सौत्री
के इत्थ स्वत्ता उवजोइया वा, अज्झावया वा ? सह खंडिएहिं।
हरिकेशमुनेः एयं तु दंडेण फलेण हंता, कंठम्मि घेत्तूण खलेन्ज जो णं ॥१८॥ व्याख्या के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयः? "उवजोइय" त्ति 'उपज्योतिषः' अग्निसमीपवर्त्तिनो X
वक्तव्यता। महानसिकाः ? 'अध्यापकाः' पाठकाः ?, उभयत्र वा विकल्पे, 'सहे ति युक्ताः 'खण्डिकैः' छात्रैः ये, किम् ? इत्याह'एन' श्रमणकं 'दण्डेन' वंशयष्ट्यादिना 'फलेन' बिल्वादिना 'हन्ते'ति हत्वा-ताडयित्वा ततश्च 'कण्ठे' गले गृहीत्वा "खलेज ति 'स्खलयेयुः' निष्काशयेयुः। "जो" त्ति वचनव्यत्ययाद् ये, "गं" वाक्यालङ्कारे इति सूत्रार्थः॥१८॥ अत्रान्तरे यत्तत्राभूत् तदाह
अज्झावयाणं वयणं सुणेत्ता, उद्धाइया तत्थ बहू कुमारा।
दंडेहिं वेत्तिहि कसेहिं चेव, समागया तं इसिं तालयंति ॥१९॥ व्याख्या-'अध्यापकानाम्' उपाध्यायानां वचनं श्रुत्वा 'उद्धाविताः' वेगेन धाविताः तत्र बहवः 'कुमाराः' छात्रादिरूपाः, ते हि क्रीडनकपरा इति 'अहो! क्रीडनकमागतम्' इति रभसतः 'दण्डैः' वंशदण्डादिभिः 'वेत्रैः' जलवंशरूपैः 'कशैश्चैव' वर्धविकारैः 'समागताः' मिलिताः तं 'ऋषि' मुनि ताडयन्ति इति सूत्रार्थः ॥ १९॥ अस्मिंश्चावसरे
रनो तहिं कोसलियस्स धूया, भद्द त्ति नामेण अणिदियंगी।
तं पासिता संजय हम्ममाणं, कुद्धे कुमारे परिणिववेइ ॥२०॥ व्याख्या-राज्ञः' नृपतेः 'तत्र' यज्ञपाटके, कोशलायां भवः कौशलिकस्तस्य "धूय" ति दुहिता भद्रेति नानी 'अनिन्दिताङ्गी' कल्याणशरीरा 'त' हरिकेशबलं "पासिय" त्ति दृष्ट्वा 'संयतं' तस्यामप्यवस्थायां हिंसादेरुपरतं