SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ हरिकेशमुनेः सौत्री वक्तव्यता। गम्यते , 'ते' इति क्रोधाद्युपेता यूयं ब्राह्मणा जातिविद्याविहीनाः। क्रियाकर्मविभागेन चातुर्वर्ण्यव्यवस्था। यत उक्तम्| "एकवर्णमिदं सर्व, पूर्वमासीद्युधिष्ठिर !। क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेनशिल्पिकः । अन्यथा नाममात्रं स्या-दिन्द्रगोपककीटवत् ॥ २॥" न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवति, अतो न तावजातिसम्भवः । तथा विद्याऽपि संज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानसंसूचकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् । ततः स्थितमेतत् -"ताई तु"त्ति 'तुः' अवधारणे भिन्नक्रम एव, ततः 'तानि' भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि' सुपापकान्येव न तु सुपेशलानि, क्रोधाद्युपेतत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ कदाचित् ते वदेयुः-वेदविद्याविदो वयमत एव ब्राह्मणजातयः तत् कथं जातिविद्याहीनाः इत्युक्तवानसि ? इत्याह तुब्भेत्थ भो! भारहरा गिराणं, अटुं न जाणाह अहिज्ज वेदे। . उच्चावयाई मुणिणो चरंति, ताई तु खेत्ताई सुपेसलाई ॥ १५ ॥ व्याख्या-यूयं 'अत्रेति लोके 'भोः' इत्यामश्रणे, भारं धरन्तीति भारधराः 'गिरां' वाचां प्रक्रमाद वेदसम्बन्धिनीनाम् , इह च भारस्तासां भूयस्त्वमेव । किमिति भारधराः ? इति उच्यते-यतः 'अर्थम्' अभिधेयं न जानीथ, "अहिज" त्ति अपेर्गम्यमानत्वाद् अधीत्यापि 'वेदान् ऋग्वेदादीन्, ततस्तत्त्वतो वेदविद्याविदोऽपि भवन्तो न भवन्ति, तत् कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? । कानि तर्हि भवदभिप्रायेण क्षेत्राणि ? इत्याह-"उच्चावयाई" ति 'उच्चावचानि' उत्तमाऽधमानि मुनयः 'चरन्ति' भिक्षानिमित्तं पर्यटन्ति गृहाणि, ये इति गम्यते, न तु भवन्त इव पचनाद्यारम्भवृत्तयः, तत एव परमार्थतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात् । तथा च वेदानुवादिनः-"चरेन्माधुकरी
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy