SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ १७७॥ द्वादशं | फलावाप्तिरित्याह — “आराहए पुन्नमिणं खु" खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नात्र अन्यथाभावः, 'पुण्यं' शुभं 'इदं' दृश्यमानं 'क्षेत्रं' दानस्थानम्, पुण्यप्ररोहहेतुतया आत्मानमेवाऽऽद्देति सूत्रार्थः ॥ १२ ॥ हरिकेशीयक्षवचनानन्तरं त इदमाहु: याख्य मध्ययनम् । वित्ताणि अहं विदिताणि लोए, जहिं पकिन्ना विरुहंति पुन्ना । जे माहणा जातिविज्जोववेया, ताइं तु खेत्ताइं सुपेसलाई ॥ १३ ॥ व्याख्या – 'क्षेत्राणि' दानक्षेत्राणि अस्माकं 'विदितानि' ज्ञातानि वर्त्तन्त इति गम्यते, 'लोके' जगति “जहिं" ति वचनव्यत्ययात् 'येषु' क्षेत्रेषु 'प्रकीर्णानि ' दत्तानि अशनादीनीति शेषः, 'विरोहन्ति' जन्मान्तरोपस्थानतः प्रादुर्भवन्ति 'पूर्णानि ' समस्तानि । स्यादेतद् — अहमपि तन्मध्यवर्त्स्न्येव इत्याशयाऽऽह – ये ब्राह्मणाः जातिश्व - ब्राह्मणजातिरूपा | विद्या च चतुर्दशविद्यास्थानात्मिका ताभ्याम् “उववेय” त्ति उपेताः - अन्विता जातिविद्योपेताः, "ताई तु" चि तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादृशानि शूद्रजातीनि शूद्रत्वादेव वेदविद्याबहिष्कृतानीति । यत उक्तम् - " सममश्रोत्रिये दानं द्विगुणं ब्राह्मणत्रुवे । सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥” इति सूत्रार्थः ॥ १३ ॥ यक्ष उवाच XCXCXCXXXXXXXXXX कोहो य माणो य वहो य जेसिं, मोसं अदत्तं च परिग्गहं च । ते माहणा जाइविज़्ज़ाविह्नणा, ताई तु खेत्ताई सुपावयाई ॥ १४ ॥ व्याख्या — क्रोधञ्च मानश्च चशब्दात् मायालोभौ च वधश्च 'येषामिति प्रक्रमाद् भवतां ब्राह्मणानां "मोसं” ति 'मृषा' अलीकभाषणं "अदत्तं" ति अदत्तादानं चशब्दात् मैथुनं च 'परिग्रहश्च' गोभूम्यादिस्वीकारः, अस्तीति सर्वत्र हरिकेशमुनेः सौत्री वक्तव्यता । ॥ १७७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy