________________
हरिकेशमुनेः
सौत्री वक्तव्यता।
भक्तसूपादि 'अन्नम्' अशनं 'प्रभूतं' बहु 'भवतां' युष्माकं सम्बन्धि 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छत "मे" त्ति सूत्रत्वाद् मां याचनजीवन-याचनेन जीवनशीलं द्वितीयार्थे षष्ठी, 'इति' अस्माद्धेतोः 'शेषाऽवशेषम्' | उद्धरितस्याप्युद्धरितं लभतां 'तपस्वी' यतिः इति सूत्रद्वयार्थः ॥ ९-१० ॥ एवं यक्षेणोक्के ते प्राहुः
उवक्खडं भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं ।
ण उ वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओ सि॥११॥ व्याख्या-'उपस्कृतं' संस्कृतं भोजनं 'माहनानां' ब्राह्मणानाम् आत्मार्थे भवमात्मार्थिकं ब्राह्मणैरप्यात्मनैव भोज्यं न त्वन्यस्मै देयम्, किमिति ? यतः 'सिद्धं' निष्पन्नं 'इह' यज्ञे, एकः पक्षः-ब्राह्मणलक्षणो यस्य तदेकपक्षम्, किमुक्तं alभवति ?-यदस्मिन्नुपस्क्रियते न तद् ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तम्-"न शूद्राय मतिं
दद्यानोच्छिष्टं न हविःकृतम् । न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १॥" यतश्चैवमतो 'न तु' नैव वयं 'ईदृशम् ' उक्तरूपम् अन्नपानं दास्यामस्तुभ्यम् , किम् इह स्थितोऽसि ? इति सूत्रार्थः ॥ ११ ॥ यक्ष आह
थलेसु बीयाई ववेंति कासगा, तहेव निन्नेसु य आससाए ।
एयाए सद्धाए दलाह मज्झं, आराहए पुन्नमिणं खु खेत्तं ॥१२॥ व्याख्या-स्थलेषु' उच्चभूभागेषु 'बीजानि' मुद्गादीनि वपन्ति 'कर्षकाः' कृषीवलाः, तथैव 'निम्नेषु च' नीचभागेषु च "आससाए" ति 'आशंसया' 'यदि अत्यन्तप्रवर्षणं भावि तदा स्थलेषु फलावाप्तिः, अथान्यथा तदा निमेषु' इत्येवमभिलाषात्मिकया 'एतया' उक्तरूपकर्षकाशंसातुल्यया श्रद्धया "दलाहि" त्ति दध्वं मह्यम् । किमुक्तं भवति ?यद्यपि भवन्तो निम्नतुल्यमात्मानं मन्यन्ते मां च स्थलतुल्यं तथापि मह्यमपि दातुमुचितम् । अथ स्यात्-एवं दत्तेऽपि न