________________
XXXXXX{
OXOXOXOX
जहा से सहस्सक्खे, वज्ज्रपाणी पुरंदरे । सक्के देवाहिवई, एवं हवइ बहुस्सुए ॥ २३ ॥ व्याख्या—यथा स सहस्रमक्ष्णामस्येति 'सहस्राक्षः' सहस्रलोचनः अत्र सम्प्रदायः - " सहरसक्ख त्ति पञ्च मंति सयाइ देवाणं इंदस्स, तस्स तेसिं सहस्समच्छीणं, तेसिं नीईए विकमइ, अहवा जं सहस्सेणं अच्छीणं दीसह तं सो दोहिं अच्छीहिं अब्भहियतरागं पेच्छइ” त्ति । वज्रं - वज्राभिधानमायुधं पाणौ अस्येति वज्रपाणिः, लोकोक्त्या च पूर्वारणात् पुरन्दरः, क ईदृग् ? इत्याह — शक्रो देवाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि श्रुतज्ञानेनाशेषातिशयरत्ननिधानेन लोचनसहस्रेणैव जानीते, यश्चैवंविधः तस्य सल्लक्षणतया वज्रमपि लक्षणं पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते, तद् विकृष्टतपोऽनुष्ठानेन दारयति कृशीकरणादिति पुरन्दरः । देवैरपि धर्मेऽत्यन्तनिश्चलतया पूज्यत इति तत्पतिरप्युच्यते, तथा चाह – “देवा वि तं णमंसंति, जस्स धम्मे सया मणो” त्ति सूत्रार्थः ॥ २३ ॥ अपि च
जहा से तिमिरविद्धंसे, उत्तिट्टंते दिवायरे । जलते इव तेएण, एवं हवइ बहुस्सु ॥ २४ ॥ व्याख्या – यथा सः 'तिमिरविध्वंसः' अन्धकारापहारकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः ' सूर्यः, स हि ऊ नभोभागमाक्रामन् अतितेजस्वितां भजते अवतरंस्तु न तथेत्येवं विशिष्यते, 'ज्वलन्निव' ज्वालां मुञ्चन्निव 'तेजसा ' महसा, एवं भवति बहुश्रुतः । सोऽपि ज्ञानतिमिरापहारकः संयमस्थानेषु विशुद्धविशुद्धतराध्यवसायत उत्सर्पन् तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥ अन्यच्च
जहा से उड्डवई चंदे, णक्खत्तपरिवारिए । पडिपुन्ने पुन्नमासीए, एवं हवइ बहुस्सुए ॥ २५ ॥ व्याख्या—यथा स उडूनां - नक्षत्राणां पतिः उडुपतिः 'चन्द्रः' शशी नक्षत्रैः - अश्विन्यादिभिरुपलक्षणत्वात् प्रस्तारादिभिश्च परिवारितो नक्षत्रपरिवारितः, 'प्रतिपूर्णः' समस्तकलोपेतः, कदा? इत्यत आह — पौर्णमास्याम् । इह च पतिरपि
XOXOXOX
बहुश्रुतस्तवः ।