SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा-X कश्चिदेकाक्येव भवति मृगपतिवदिति उडुपतिग्रहणेऽपि नक्षत्रपरिवारित इत्युक्तम् । एवं भवति बहुश्रुतः । असावपि नक्षत्र- एकादशं ध्ययनसूत्रे सदृशानां साधूनामधिपतिः तथा तत्परिवारितः, सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ २५ ॥ अपरं च- बहुश्रुतश्रीनेमिच- जहा से सामाइगाणं, कोहागारे सुरक्खिए । णाणाधनपडिपुन्ने, एवं हवइ बहुस्सुए ॥२६॥ पूजाख्यन्द्रीया व्याख्या-यथा सः “सामाइयाणं" ति समाज:-समूहस्तं समवयन्ति सामाजिकाः-समूहवृत्तयो लोकास्तेषां, 'कोष्ठा- मध्ययनम्। सुखबोधा- x गारः' धान्याश्रयः सुष्टु-प्राहरिकपुरुषादिव्यापारादिना रक्षितः-पालितो दस्युमूषकादिभ्यः सुरक्षितः, नाना-अनेकप्रकाराणि ख्या लघु बहुश्रुतधान्यानि-शालिमुद्गादीनि तैः प्रतिपूर्णो नानाधान्यप्रतिपूर्णः। एवं भवति बहुश्रुतः। असावपि सामाजिकानामिव गच्छवा स्तवः। वृत्तिः । सिनां मुनीनामुपयोगिभिर्नानाधान्यसदृशैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति । सुरक्षितश्च प्रवच-12 ॥१७१॥ नाऽऽधारतया । यत उक्तम्-"जेणं कुलं आयत्तं, तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥२६॥ अपि चजहा सा दुमाण पवरा, जंबू णाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७ ॥10 ___ व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूः 'नाम्ना' अभिधानेन, 'सुदर्शना नाम' सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, दुमत्वं फलव्यवहारश्चास्याः तत्प्रतिरूपतयैव, वस्तुतः पार्थिवत्वेनोक्तत्वात् । सा च कस्य ? इत्याह-'अनाहतस्य' अनाहतनाम्नः 'देवस्य' जम्बूद्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन सम्बन्धिनी । एवं भवति बहुश्रुतः । सोऽपि ह्यमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषदुमोपमसाधुषु च प्रधान इति सूत्रार्थः ॥ २७ ॥ अन्यच्च ॥१७१॥ जहा सा नईण पवरा, सलिला सागरंगमा । सीया णीलवंतप्पवहा, एवं हवइ बहुस्सुए ॥२८॥ "यस्मिन् कुलं आयत्तं तं पुरुषमादरेण रक्षत"। FoXXXXXXXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy