SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१७॥ | व्याख्या-यथा स तीक्ष्णदंष्ट्रः 'उग्र' उत्कटः अत एव "दुप्पहंसए" त्ति 'दुष्प्रधर्षक:' अन्यैर्दुरभिभवः 'सिंहः'। एकादशं | केसरी 'मृगाणाम्' आरण्यप्राणिनां प्रवरो भवति, एवं बहुश्रुतः । अयमपि हि परपक्षभेत्तृतया तीक्ष्णदंष्ट्रासमैनेंगमादिनयैः बहुश्रुतप्रतिभादिगुणोदप्रतया च दुरभिभव इत्यन्यतीर्थानां मृगस्थानीयानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ अपरं च पूजाख्यजहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं हवइ बहुस्सुए ॥२१॥ मध्ययनम्। ___ व्याख्या-यथा 'वासुदेवः' विष्णुः, शङ्खचक्रगदा धारयतीति शङ्खचक्रगदाधरः, 'अप्रतिहतबल:' अस्खलितसामर्थ्यः, किमुक्तं भवति ?-एकं सहजसामर्थ्यवान अन्यच्च तथाविधायुधान्वित इति, 'योधः' सुभटः, भवत्येवं बहुश्रुतः । सोऽपि बहुश्रुतह्येकं स्वाभाविकप्रतिभाप्रागल्भ्यवान् अपरं शङ्खचक्रगदासदृशैः सम्यग्दर्शनज्ञानचारित्रैरुपेत इति योध इव योधः कर्म स्तवः । वैरिपराभवं प्रतीति सूत्रार्थः ॥ २१ ॥ अपरं च जहा से चाउरंते, चक्कवट्टी महिड्डिए। चोद्दसरयणाहिवई, एवं हवइ बहुस्सुए॥२२॥ व्याख्या-यथा स चतुर्भिः-हयगजरथनरात्मकैः अन्तः-शत्रुविनाशात्मको यस्य स तथा, 'चक्रवर्ती' षट्खण्डभरताधिपः 'महर्द्धिकः' दिव्यानुकारिलक्ष्मीकः, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि-'सेणावइ गाहावइ, पुरोहिय गैय तुरय वइग इत्थी । चकं छत्तं चम्म, मणि कौगिणि इंग्ग दंडो य ॥१॥ तेषामधिपतिश्चतुर्दशरत्नाधिपतिः, एवं भवति बहुश्रुतः । सोऽपि हि चतुर्भिर्दानादिधर्फरन्तः-स्वकर्मवैरिविनाशोऽस्येति चतुरन्तः, ऋद्धयश्चामर्षोषध्यादयो मह्त्य एवास्य भवन्ति, सम्भवन्ति चास्याऽपि चतुर्दशरत्नोपमानि पूर्वाणीति कथं न चक्रवर्ति-10॥१७॥ तुल्यतास्य ? इति सूत्रार्थः ॥ २२ ॥ सेनापतिः पाथीपतिः पुरोहितो गंजस्तुरंगो वर्धकिः स्त्री । चक्र छत्रं चर्म मणिः कौकिणी खगो दण्डैश्च ॥ १॥'
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy