________________
बहुश्रुतस्तवः।
रूपेण नान्दीघोषेणोपलक्षितः परतीर्थिभिरतीव मदावलिप्तैरपि नाभिभवितुं शक्यः, न चाऽत्र प्रतिपत्तिः तदाश्रितोऽन्योऽपि कथञ्चिजीयत इति सूत्रार्थः ॥ १७ ॥
जहा करेणुपरिकिन्ने, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं हवइ बहुस्सुए ॥१८॥ व्याख्या-यथा करेणुपरिकीर्णः-हस्तिनीभिः परिवृतः 'कुञ्जरः' हस्ती, षष्टिायनान्यस्येति षष्टिहायन' षष्टिवर्षप्रमाणः, तस्य हि एतावत्कालं यावत् प्रतिवर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम् , अत एव च "बलवंते" त्ति बलं
शरीरसामर्थ्यमस्यास्तीति बलवान् सन् अप्रतिहतो भवति, कोऽर्थः १-नाऽन्यैर्मदोत्कटैरपि मतङ्गजैः पराङ्मुखीक्रियते । alएवं भवति बहुश्रुतः। सोऽपि हि करेणुसदृशीभिः परप्रसरनिरोधिनीमिरौत्पत्तिक्यादिबुद्धिभिर्विद्याभिश्च विविधाभिर्वृतः
षष्टिहायनतया चात्यन्तस्थिरमतिः, अत एव च बलवत्त्वेनाप्रतिहतो भवति, दर्शनोपहन्तृभिर्न प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥ अन्यच्च___ जहा से तिक्खसिंगे, जायक्खंधे विरायइ । वसहे जूहाहिवई, एवं हवइ बहुस्सुए ॥ १९॥
व्याख्या-यथा स तीक्ष्णे-निशिताने शृङ्गे-विषाणे यस्य स तथा, जातः-अत्यन्तमुपचितीभूतः स्कन्धोऽस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचितत्वोपलक्षणं चैतत् , विराजते 'वृषभः' प्रतीतः, यूथस्य-गवां समूहस्य अधिपतिः-स्वामी स तथा, एवं भवति बहुश्रुतः। सोऽपि हि परपक्षभेत्ततया तीक्ष्णाभ्यां स्वशास्त्रपरशास्त्राभ्यां शृङ्गतुल्याभ्यामुपलक्षितो गच्छादिगुरुकार्यधुराधरणधौरेयतया च जातस्कन्धः, अत एव यूथस्य-साध्वादिसमूहस्य अधिपतिः-आचार्यादिपदवीं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ अन्यच्च
जहा से तिक्खदाढे, ओदग्गे दुप्पहंसए । सीहे मियाण पवरे, एवं हवइ बहुस्सुए ॥२०॥