________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीयासुखबोधा
ख्या लघुवृत्तिः ।
॥ १६९ ॥
CXCXCXCXX
चालतां भजते, नापि च परिस्रवति । 'एवम्' अनेन प्रकारेण बहुश्रुते “भिक्खु" त्ति आर्यत्वाद् 'मिक्षौ' तपस्विनि 'धर्मः' यतिधर्मः 'कीर्त्तिः' श्राघा तथा 'श्रुतम्' आगमो विराजते इति सम्बधः । किमुक्तं भवति ? — यद्यपि धर्म कीर्त्ति श्रुतानि निरुपलेपतादिगुणेन स्वयं शोभाभाञ्जि तथापि मिथ्यात्वादिकालुष्यविगमतो निर्मलतादिगुणेन शङ्ख इव बहुश्रुते स्थितान्याश्रयगुणेन विशेषतः शोभन्ते तानि हि न तत्र मालिन्यम् अन्यथाभावं हानिं वा कदाचन प्रतिपद्यन्ते इति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमाह —
जहा से कंबोयाणं, आइने कंथए सिया । आसे जवेण पवरे, एवं हवइ बहुस्सुए ॥ १६ ॥ 'यथा' येन प्रकारेण 'सः' इति प्रतीतः 'कम्बोजानां' कम्बोजदेशोद्भवानां प्रक्रमादश्वानां मध्ये 'आकीर्णः' व्याप्तः शीलादिगुणैरिति गम्यते, 'कन्थकः ' प्रधानोऽश्वः, यः किल दृषच्छकलभृतकुतुपनिपतनध्वनेर्न सत्रस्यति, 'स्यात्' भवेत् 'अश्वः ' तुरङ्गमः ' जवेन' वेगेन 'प्रवरः' प्रधानः । 'एवम्' इत्युपनये, तत ईदृशो भवति बहुश्रुतः, सोऽप्यन्ययतीनां शीलादिभिर्गुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥ किं च -
जहाऽऽइन्नसमारूढो, सूरे दढपरक्कमे । उभओ दिघोसेणं, एवं हवइ बहुस्सु ॥ १७ ॥ व्याख्या -यथा आकीर्णं - जात्यादिगुणोपेतं तुरङ्गमं समारूढः - अध्यासितः आकीर्णसमारूढः 'शूरः' चारभटः 'दृढपराक्रमः' गाढपराक्रमः “उभओ" त्ति उभयतः ' वामतो दक्षिणतश्च 'नान्दीघोषेण' द्वादशतूर्यनिर्घोषात्मकेन । एवं भवति बहुश्रुतः । किमुक्तं भवति ? – यथैवंविधः शूरो न केनचिदभिभूयते, न चान्यस्तदाश्रितः तथाऽयमपि जिनप्रवचनतुरङ्गाश्रितो दृप्यत्परवादिदर्शनेऽपि चात्रस्तः तद्विजयं च प्रति समर्थः उभयतश्च दिनरजन्योः स्वाध्यायघोष
छत्र-छ
एकादशं बहुश्रुतपूजाख्य
मध्ययनम् ।
बहुश्रुत
स्तवः ।
॥ १६९ ॥