SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ सूत्रे चतुर्थ्यर्थे सप्तमी । तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि एकान्ते 'भाषते' वक्ति पापमेव पापकम्, | किमुक्तं भवति ? - अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोऽयमित्यादिकमनाचारमेवाऽऽविष्करोति । तथा प्रतिज्ञया-इत्थ | मेवेदमित्येकान्ताभ्युपगमरूपया वदनशीलः प्रतिज्ञावादी । तथा "दुहिल" ति द्रोहणशीलः द्रोग्धा न मित्रमप्यनभिद्रुह्यं आस्ते । तथा 'स्तब्ध:' तपव्यहम् इत्याद्यहङ्कृतिमान् । तथा 'लुब्ध:' अन्नादिष्वभिकाङ्क्षावन् । तथा 'अनिर्ब्रह: ' प्राग्वत् । तथा असंविभजनशीलः असंविभागी, नाऽऽहारादिकमवाप्यातिगा तो ऽन्यस्मै स्वल्पमपि प्रयच्छति, किन्त्वात्मानमेव पोषयति । तथा "अचियत्ते" त्ति 'अप्रीतिकरः' दृश्यमानः सम्भाष्यमाणो वा सर्वस्याप्रीतिमेवोत्पादयति, एवंविधदोषान्वितोऽविनीत इत्युच्यत इति निगमनम् ॥ इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह — अथ पञ्चदशभिः | स्थानैः सुष्ठु - शोभनो विनीतः - विनयान्वितः सुविनीत इत्युच्यते । तान्येवाह – “नीयावित्ति" त्ति नीचम् - अनुद्धतं यथा भवत्येवं वर्त्तत इत्येवंशीलः नीचैवर्त्ती, गुरुषु न्यग्वृत्तिमान्, यथाऽऽह — “नीयं सेज्जं गइं ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदिज्जा, नीयं कुज्जा य अंजलिं ॥ १ ॥” तथा च न चपलः अचपैलः गति-स्थान-भाषाभावभेदतश्चतुर्द्धा । तत्र गतिचपलः - द्रुतचारी । स्थानचपल: - यस्तिष्ठन्नपि चलन्नेवास्ते हस्तादिभिः । भाषाचपल:सद- सभ्याऽसमीक्ष्या- देशकालप्रलापिभेदाच्चतुर्द्धा, तत्र असत् - अविद्यमानम् असभ्यम् - खरपरुषादि असमीक्ष्यअनालोच्य प्रलपन्तीत्येवंशीला असदसभ्याऽसभीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी चतुर्थः, अतीते कार्ये यो वक्ति - यदिदं १ "नीचां शय्यां गतिं स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याच्चाञ्जलिम् ॥ १ ॥” २ प्रलापिशब्दस्य चतुर्णामभिसम्बन्धादसत्प्रलापी १ असभ्यप्रलापी भाषाचपल उच्यते । २ असमीक्ष्यप्रलापी ३ अदेशकालप्रलापीति : चतुर्द्धा सविपक्ष बहुश्रुतस्वरूपम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy