________________
XCXCXXXCXCXCXXCXCXCXX
अह पंचहिं ठाणेहिं, जेहिं सिक्खा न लब्भइ । थंभा कोहा पमाएणं, रोगेणं आलसेण य ॥ ३ ॥ ] अह अट्टहिं ठाणेहिं, सिक्खासीले त्ति वुच्चइ । अहस्सिरे सया दंते, ण य मम्ममुदाहरे ॥ ४ ॥ णासीले ण विसीले, ण सिया अइलोलुए। अकोहणे सच्चरए, सिक्खासीले त्ति बुचइ ॥ ५ ॥ व्याख्या – 'अथ' इत्युपन्यासार्थे, पञ्चभिः 'स्थानैः प्रकारैर्यैर्वक्ष्यमाणा 'शिक्षा' ग्रहणाssसेवनात्मिका न लभ्यते | तैरीदृशमबहुश्रुतत्वमवाप्यत इति शेषः । कैः पुनः सा न लभ्यते ? इत्याह – ' स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन ' 'मद्यविषयादिना 'रोगेण' गलत्कुष्टादिना, 'आलस्येन' अनुत्साहात्मना शिक्षा न लभ्यत इति प्रक्रमः । 'च' समुच्चये । इत्थमबहुश्रुतत्वहेतूनभिधाय बहुश्रुतत्वहेतूनाह - अथ अष्टाभिः स्थानैः शिक्षां शीलयति - अभ्यस्यतीति शिक्षाशील इत्युच्यते | तीर्थकरादिभिरिति गम्यते । तान्येवाह – “अह स्सिरे" त्ति अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, 'सदा' सर्वकालं 'दान्त:' इन्द्रिय- नोइन्द्रियदमवान्, न च 'मर्म' परापभ्राजनाकारि 'उदाहरेत्' उद्घट्टयेत्, 'न' नैव 'अशल: ' सर्वथा | शीलविकलः, न 'विशीलः' विरूपशीलोऽती चारकलुषितत्रत इत्यर्थः, 'न स्यात्' न भवेत् 'अतिलोलुपः' अतीवर सलम्पटः, 'अक्रोधनः' अपराधिन्यपि क्षमावान्, 'सत्यरतः अवितथभाषणसक्त इति । निगमयितुमाह – शिक्षाशीलः 'इति' अनन्तरोक्तगुणभाग् उच्यते, स च बहुश्रुत एव भवतीति भावः । विशेषाभिधायित्वाच्च क्वचित् केषाञ्चिदन्तर्भावसम्भवेऽपि पृथगुपादानमिति सूत्रत्रयार्थः ।। ३-४-५ ।। किञ्च — अबहुश्रुतत्वे बहुश्रुतत्वे वाऽविनयो विनयश्च मूलकारणं । न च अविनीतविनीतयोः स्वरूपमविज्ञाय तौ ज्ञातुं शक्याविति यैः स्थानैरविनीतो यैश्च विनीत उच्यते तान्यभिधातुमाह
अह चोद्दसहिं ठाणेहिं, वहमाणो उ संजए । अविणीए बुच्चई सो उ, णिवाणं च ण गच्छइ ॥६॥ अभिक्खणं कोही भवइ, पबंधं च पकुवइ । मित्तिजमाणो वमइ, सुयं लढूण मज्जइ ॥७॥
सविपक्ष
बहुश्रुतस्वरूपम् ।