SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्री उत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥ १६६॥ अथ बहुश्रुतपूजाख्यमेकादशमध्ययनम् । उक्तं दशममध्ययनम् । साम्प्रतं बहुश्रुतपूजाख्यमेकादशमारभ्यते, अस्य चायमभिसम्बन्धः - ' इहानन्तराध्ययनेऽप्रमादार्थमनुशासनमुक्तम्, तच विवेकिनैव भावयितुं शक्यम्, विवेकश्च बहुश्रुतपूजात उपजायते इति बहुश्रुतपूजोच्यते ' इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य आदिसूत्रम् - संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुत्रिं सुणेह मे ॥१॥ व्याख्या - संयोगाद् विप्रमुक्तस्य अनगास्य भिक्षोः 'आचारम्' उचितक्रियां बहुश्रुतपूजात्मिकां प्रादुष्करिष्याम्यानुपूर्व्या शृणुत मे कथयत इति शेष इति सूत्रार्थः ॥ १ ॥ इह बहुश्रुतपूजा प्रक्रान्ता, सा च बहुश्रुतस्वरूपरिज्ञान एव कर्त्तुं शक्या, बहुश्रुतश्च अबहुश्रुतविपर्ययेण भवति अतोऽबहुश्रुतस्वरूपं तावदाह— जे यावि होइ निविज्जे, धद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवती, अविणीए अबहुस्सुए ॥ २ ॥ व्याख्या – 'यः' कश्चित् चापिशब्दौ मिन्नक्रमावुत्तरत्र योक्ष्येते, 'भवति' जायते, निर्गतो विद्यायाः सम्यकशास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि यः 'स्तब्धः' अहङ्कारी 'लुब्धः' रसादिगृद्धिमान्, न विद्यते निग्रहः - इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः, 'अभीक्ष्णं' पुनः पुनः उत्- प्राबल्येनासम्बद्धभाषितादिरूपेण लपति- वक्ति उल्लपति 'अविनीतच' विनयरहितः, "अबहुस्सुए" त्ति यत्तदोर्नित्याभिसम्बन्धात् सोऽअबहुश्रुत उच्यते इति शेषः । | सविद्यस्याप्यबहुश्रुतत्वं बहुश्रुतफलाभावादिति भावनीयम् एतद्विपरीतच अर्थात् बहुश्रुत इति सूत्रार्थः ॥ २ ॥ कुतः पुनरीदृशमबहुश्रुतत्वं बहुश्रुतत्वं च लभ्यते ? इत्याह O-XO-XO-XO-XO-XO-XO-XO-XOXOXOXOXOX एकादशं बहुश्रुतपूजाख्यमध्ययनम् । सविपक्षबहुश्रुतस्वरूपम् । | ॥ १६६ ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy