________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६५ ॥
XCXCXXXXX
अकलेवरसेणिमुस्सिया, सिद्धिं गोयम ! लोय गच्छसि । खेमं च सिवं अणुत्तरं, समयं गोयम ! मा पमायए ॥ ३५ ॥
व्याख्या - अविद्यमानं कडेवरं शरीरमेषामकडेवराः - सिद्धास्तेषां श्रेणिरकडेवरश्रेणिः, यया उत्तरोत्तरशुभपरिणामप्राप्तिरूपया ते सिद्धिपदमारोहन्ति क्षपकश्रेणिरित्यर्थः, तां 'उच्छ्रित्य' उत्तरोत्तरसंयमस्थानावात्योच्छ्रितामिव कृत्वा 'सिद्धि' सिद्धिनामानं लोकं गौतम ! 'गच्छसि' सुब्व्यत्ययाद् गमिष्यसि । 'क्षेमं' परचक्राद्युपद्रवरहितं, 'चः' समुच्चये भिन्नक्रमच, 'शिवमनुत्तरं च ' तत्र शिवम्-अशेषदुरितोपशमेन, अनुत्तरं - सर्वोत्कृष्टम्, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३५ ॥ | सम्प्रति निगमयितुमुपदेशसर्वस्वमाह
बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए । संतिमग्गं च वूहते, समयं गोयम ! मा पमायए ॥ ३६॥
व्याख्या—‘बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः ' कषायाम्युपशमतः शीतीभूतः 'चरेः' आसेवख, संयममिति शेषः । “गाम" त्ति विभक्तिलोपाद् ग्रामे 'गतः ' स्थितो नगरे वा, उपलक्षणत्वाद् अरण्यादिषु वा, किमुक्तं भवति ? - सर्वस्मिन् अनभिष्वङ्गवान्, 'संयतः' सम्यक् पापस्थानेभ्य उपरतः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो मिनक्रमः, ततः 'बृंहयेश्व' भव्यजनप्ररूपणया वृद्धिं नयेः, ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ इत्थं भगवदुक्तमिदमाकर्ण्य गौतमो यत् कृतवांस्तदाह
बुद्धस्स निसम्म भासियं, सुकहितमट्ठपदोवसोहियं ।
रागं दोसं च छिंदिया, सिद्धिगई गए गोयमे ॥ ३७ ॥ त्ति बेमि ॥
दशमं द्रुमपत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६५ ॥