________________
व्याख्या-'अबल:' अविद्यमानशरीरसामर्थ्य: 'यथेति औपम्ये, भारं वहतीति भारवाहकः, 'मा' निषेधे "मग्गे"
तिअप्रमादार्थ मार्ग "विसमे" त्ति 'विषम' मन्दसत्त्वैर्दुस्तरं "अवगाहिय" त्ति 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यते, |
तभार समिति गम्यते. वीरप्रभोरनु'पश्चात्' तत्कालानन्तरं 'पश्चादनुतापकः' पश्चात्तापकृत् , भूरिति शेषः । इदमुक्तं भवति-यथा कश्चिद् देशान्तरगतो शासनम् । बहुभिरुपायैः स्वर्णादिकमुपाय॑ स्वगृहाभिमुखमागच्छन्नतिमीरुतया अन्यवस्त्वन्तर्हितं स्वर्णादिकं स्वशिरस्यारोप्य कतिचिद् | दिनानि सम्यगुद्वहति, अनन्तरं च कचिदुपलादिसङ्कले पथि 'अहो! अहमनेन भारेणाऽऽक्रान्तः' इति तमुत्सृज्य स्वगृहमागतोऽत्यन्तनिर्धनतयाऽनुतप्यते-किं मया मन्दभाग्येन तत् परित्यक्तमिति । एवं त्वमपि प्रमादपरतया त्यक्तसंयमभारः
सन्नेवंविधो मा भूः, किंतु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३३ ॥ बह्निदमद्यापि निस्तरणीयमल्पं च al निस्तीर्णमित्यभिसन्धिनोत्साहभङ्गोऽपि स्यादिति तदपनोदायाह
तिन्नो हु सि अन्नवं महं, किं पुण चिट्ठसि तीरमागओ।
अभितुर पारं गमित्तए, समयं गोयम! मा पमायए ॥ ३४॥ व्याख्या-"तिन्नो हु सि" त्ति तीर्ण एवाऽसि, अर्णवमिवाऽर्णवं “महं" ति 'महान्तं' गुरुम् , 'किमिति प्रश्ने, 'पुनरिति वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि 'तीर' पारं 'आगतः' प्राप्तः? । किमुक्तं भवति ?-संसारः भवः कर्म वा भावतोऽर्णव उच्यते, स च द्विविधोऽपि त्वयोत्तीर्णप्राय एवेति केन हेतुना तीरप्राप्तोऽप्यौदासीन्यं भजसे? नैवेदं तवोचितमित्याशयः । किन्तु "अभितुर" त्ति अभि-आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो मुक्तिपदं "गमित्तइ" त्ति गन्तुम् , अतश्च समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३४॥ अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति अत आह