________________
श्रीउनराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा- ख्या लघुवृत्तिः ।
al दशमं द्रुम
पत्राख्यमध्ययनम्। अप्रमादार्थ वीरप्रभोरनु|शासनम् ।
॥१६४॥
व्याख्या-'नहु' नैव 'जिनः' तीर्थकृत् 'अद्य' अस्मिन् काले दृश्यते, यद्यपीति गम्यते, तथापि "बहुमए" त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, स एवात्र परिगृह्यते, स दृश्यते, "मग्गदेसिय" त्ति मार्यमाणत्वाद् मार्गः-मोक्षस्तस्य "देसिए"त्ति सूत्रत्वात् देशकः-प्रापको मार्गदेशकः, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचेतसो भाविनोऽपि भव्या न प्रमादं विधास्यन्तीति, अतः समयमपि गौतम! मा प्रमादीः । इत्थं व्याख्या सूचकत्वात् सूत्रस्येति सूत्रार्थः ॥ ३१ ॥ अत्रैवार्थे पुनरुपदिशन्नाह
अवसोहिय कंटगापह, ओइन्नोऽसि पहं महालयं ।
गच्छसि मग्गं विसोहिया, समयं गोयम ! मा पमायए ॥ ३२॥ व्याख्या-'अवशोध्य' परिहृत्य "कंटगापह" ति आकारोऽलाक्षणिकः, कण्टकाश्च-भावतः चरकादिकुश्रुतयः तैराकुलः पन्थाः कण्टकपथस्तं, ततः 'अवतीर्णोऽसि' अनुप्रविष्टः 'असि' भवसि 'पन्थानं' प्रक्रमात् सम्यग्दर्शनादिकं भावमार्ग "महालय" ति महान्तम्, कश्चिदवतीर्णोऽपि मार्ग न गच्छेद् अत आह-'गच्छसि' यासि मार्ग, न पुनरवस्थित एवाऽसि, सम्यग्दर्शनाद्युत्सर्पणेन मुक्तिमार्गगमनप्रवृत्तत्वाद्भवतः । तथाप्यनिश्चये प्रायोऽप्राप्तिरेव स्यादित्याह-विशोध्य' विनिश्चित्य । तदेवं प्रवृत्तः सन् समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ अनन्तरं मार्गप्रतिपत्तिरुक्ता, तत्प्रतिपत्तौ च कस्यचिदनुतापसम्भव इति तन्निराचिकीर्षयाऽऽह
अबले जह भारवाहए, मा मग्गे विसमेऽवगाहिया। पच्छा पच्छाणुतावए, समय गोयम! मा पमायए ॥ ३३ ॥
॥१६४॥