________________
•CXCXXXXX6
अनन्तरं सर्व स्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह जलमपहायैतावति सिद्धे यत् शारदपदोपादानं तत् शारदजलस्येव स्नेहस्याऽपि अतिमनोरमत्वख्यापनार्थमिति सूत्रार्थः ।। २८ ।। किञ्च -
चेच्चा णं धणं च भारियं, पवइओ हि सि अणगारियं ।
मावतं पुणो वि आइए, समयं गोयम ! मा पमायए ।। २९ ।।
व्याख्या- 'यक्त्वा' परिहृत्य "गं" वाक्यालङ्कारे, 'धनं' चतुष्पदादि, चशब्दो भिन्नक्रमः, ततः भार्यां च त्यक्त्वा 'प्रत्रजितः ' प्रतिपन्नः, 'हि:' यस्मात् "सी" ति सूत्रत्वेन अकारलोपात् 'असि' भवसि 'अनगारितां' यतिताम्, अतो मा 'वान्तम' उद्गीर्णं पुनरपि "आइए" त्ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ २९ ॥ कथञ्च वान्ताऽऽपानं न भवति ? इत्याह
अवउज्झिय मित्तबंधवं, विउलं चैव धणोहसंचयं ।
मातंबितियं गवेसए, समयं गोयम ! मा पमायए ॥ ३० ॥
व्याख्या- 'अपोल' त्यक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवम्, विपुलं चैव 'धनौघसंचयं' कनकादिद्रव्यसमूहसञ्चयम् मा 'तदिति मित्रादिकं 'द्वितीयं' पुनर्ग्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तदभिष्वङ्गवान् मा भूः त्यक्तं हि तद् वान्तोपमम्, तदभिष्वङ्ग वान्ताऽऽपानप्राय इत्यभिप्रायः । किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३० ॥ इत्थं प्रतिबन्धनिराकरणार्थमभिधाय दर्शनविशुद्ध्यर्थमाह
ण हु जिणे अज्ज दिस्सर, बहुमए दिस्सर मग्गदेसिए । संपइ णेयाउए पहे, समयं गोयम ! मा पमायए ॥ ३१ ॥
POXXX*** XXX CXCX****
अप्रमादार्थ वीरप्रभोरनुशासनम् ।