________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीयासुखबोधा
ख्या लघुवृत्तिः ।
॥ १६३॥
BXCXCXXX XOXOX CXCXX CXCX
अरई गंडं विसूईया, आर्यका विविहा फुसंति ते ।
विहडइ विद्धंसह ते सरीरयं, समयं गोयम ! मा पमायए ॥ २७ ॥
व्याख्या – 'अरतिः' वातादिजनितश्चित्तोद्वेगः 'गंड' गडुः, 'विसूचिका' अजीर्णविशेषः 'आतङ्काः ' सद्यो घातिनो रोगविशेषाः 'विविधाः' अनेकप्रकाराः स्पृशन्ति 'ते' तव शरीरकमिति गम्यते । यदुक्तम् — “सासे खासे जरे डाहे, | कुच्छिसूले भगंदरे । अरिसा अजीरए दिट्ठी-मुहसूले अरोय ॥ १ ॥ अच्छिवेयण कंडू य, कन्नावाहा जलोयरे । कोढे एमाइणो रोगा, पीलयंति सरीरिणं ॥ २ ॥।" ततश्च "विहडइ" त्ति 'विपतति' विशेषेणाधः पतति - बलोपचयादपैति, 'विध्वस्यते' जीवविमुक्तमधः पतति ते शरीरकम्, अतो यावज्जरा रोगाश्च शरीरं न जर्जरयन्ति तावत् समयमपीति पूर्ववत् । अन्येषामपि अयमुपदेशः । उक्तञ्च - " यावत् स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा, यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, सन्दीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः ? ॥ १ ॥ " केशपाण्डुरत्वादि च यद्यपि गौतमे न सम्भवति तथापि तन्निश्रया शेष शिष्यप्रतिबोधनार्थत्वाददुष्टमिति सूत्रार्थः ॥२७॥ यथा अप्रमादो विधेयस्तथा चाऽऽह
वोच्छिद सिणेहमप्पणो, कुमुदं सारइयं व पाणियं ।
से सब सिणेहवज्जिए, समयं गोयम ! मा पमायए ॥ २८ ॥
व्याख्या- 'व्युच्छिन्द्वि' अपनय 'स्नेहम्' अभिष्वङ्ग, कस्य सम्बन्धिनम् ? आत्मनः, कुमुदमिव "सारइयं" ति सूत्रत्वात् शरदि भवं शारदम् 'वा' उपमार्थो भिन्नक्रमश्च प्राग् योजितः, 'पानीयं' जलम्, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्त्तते तथा त्वमपि चिरसंसृष्टत्वादिभिर्मद्विषय स्नेहवशगोऽपि तमपनय, अपनीय च "से" इति 'अथ'
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६३ ॥