________________
प्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासंभवात् । ईदृशेऽप्यासनेऽल्पोत्थायी-प्रयोजनेऽपि न पुनः पुनरुत्थानशील:, निरुत्थायी-निमित्तं विना नोत्थानशीलः, उभयत्राऽन्यथाऽनवस्थितत्वात् । एवंविधश्च किम् ? इत्याह-निषीदेत्-आसीत, || 'अप्पकुक्कुई' अल्पस्पन्दनः-करादिभिरल्पमेव चलन्निति सूत्रार्थः ॥ ३० ॥ संप्रत्येषणाविषयं विनयमाहकालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजेत्ता, काले कालं समायरे ॥३१॥ __ व्याख्या-काले-प्रस्तावे, सप्तम्यर्थे तृतीया, निष्कामेत्-गच्छेद् भिक्षुः, अकाले निर्गमे आत्मक्लामनादिदोषसंभवात् । तथा काले च प्रतिक्रामेत्-प्रतिनिवर्तेत, भिक्षाटनादिति शेषः । इदमुक्तं भवति-अलाभे अल्पं मया लब्धं न लब्धमिति |* वा लाभार्थी नाटन्नेव तिष्ठेत्, आह च-अलाभो त्ति न सोइज्जा तवो त्ति अहियासए' । किमित्येवम् ? अत आहअकालं च-तत्तक्रियाकाण्डाऽसमयं चेति यस्माद् विवर्य काले-प्रस्तावे कालं-तत्तत्कालोचितं प्रत्युपेक्षणायनुष्ठानं समाचरेत्-कुर्यात् , यतः-कालम्मि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । इय सब श्चिय किरिया, नियनियकालम्मि विन्नेया ॥ १॥ इति सूत्रार्थः ॥ ३१ ॥ निर्गतश्च यत् कुर्यात् तदाहपरिवाडीए न चिढेजा, भिक्खू दत्तेसणं चरे। पडिरूवेण एसिता, मियं कालेण भक्खए ॥३२॥ ____ व्याख्या-परिपाट्यां-पतयां भोक्तुमुपविष्टपुरुषसंबन्धिन्यां न तिष्ठेद् भिक्षार्थ नास्ते, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् । किञ्च भिक्षुर्दत्तं-दानं तस्मिन् गृहिणा दीयमाने एषणा-तद्गतदोषान्वेषणात्मिका दत्तेषणा तां चरेत्-आसेवेतेति, अनेन ग्रहणैषणोक्ता । किं विधाय दत्तषणां चरेत् ? प्रतिरूपेण-प्रतिबिम्ब चिरन्तनमुनीनां यद् रूपं तेन पतगृहादिधारणा
अलाभ इति न शोचेत् तप इत्यध्यासीत। २ काले क्रियमागं कृषिकर्म बहुफळं यथा भवति । इति सर्वैव किया, निजनिजकाले बिज्ञेया ॥२॥