________________
श्रीउत्तरा-X
प्रथमं विनयाध्ययनम्।
अणुसासणमोवायं, दुक्कडस्स य चोयणं । हियं तं मन्नर पन्नो, वेस्त होइ असाहुणो ॥ २८ ॥ ध्ययनसूत्रे व्याख्या-अनुशासनं-शिक्षणं 'ओवायं ति उपाये-मृदुपरुषभाषणादौ भवमौपायं, दुःकृतस्य च-कुत्सिताचरितस्य श्रीनमिच- च चोदन-प्रेरणं हा किमिदमाचरितमित्यादिरूपं गुरुकृतमिति दृश्यं, हितं-इहपरलोकोपकारि तत्-अनुशासनादि मन्यते न्द्रीयवृत्तिःप्राज्ञः-प्रज्ञावान । द्वेष्यं-द्वेषोत्पादकं भवत्यसायोः-असाधुभावस्य तत् । अनेनासाघोर्गुरुवचनमप्यनिष्टं भवतीत्युक्तमिति
सूत्रार्थः ॥ २८ ॥ अमुमेवार्थं व्यक्तीकुर्वन्नाह॥१०॥
| हियं विगयभया बुद्धा, फरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं, खंतिलोहिकरं पदं ॥२९॥
व्याख्या-हितं-पथ्यं विगतभयाः-इहलोकपरलोकादानाकस्मादाजीविकोमरणाश्लोकभयरहिता बुद्धा:-अवगततत्त्वा मन्यन्त इति शेषः, परुषमप्यनुशासनं गुरुविहितमिति दृश्यं । द्वेष्यं तत्-अनुशासनं भवति मूढानां अज्ञानां, क्षान्तिःक्षमा शुद्धिः-आशयशुद्धता तत्करम् , उपलक्षणत्वान्माईवार्जवादिकरमपि, क्षान्त्यादिहेतुत्वाद् गुर्वनुशासनस्य, पई
ज्ञानादिगुणानां स्थानम् । यतः—सद्बोधं विदधाति हन्ति कुमति मिथ्यादृशं बाधते, धत्ते धर्ममति तनोति परमे संवेगal निवेदने । रागादीन् विनिहन्ति नीतिममलां पुष्णाति हन्त्युत्पथं, यद्वा किं न करोति सद्गुरुमुखादभ्युद्गता भारती ॥ १ ॥ | इति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह
आसणे उवचिढेजा, अणुच्चे अकुए थिरे । अप्पुत्थाई णिरुत्थाई, निसीना अप्पकुकुई ॥ ३० ॥
व्याख्या-आसने-पीठादौ वर्षासु ऋतुबद्धे तु पादपुंछने उपविशेत् । अनुच्चे-द्रव्यतो नीचे भावतः स्वल्पमूल्यादौ गुर्वासनादिति गम्यते । अकुचे-अस्पन्दमाने, न तु तिनिशफलकवत् किञ्चिञ्चलति तस्य शृङ्गाराऽङ्गत्वात् । स्थिरे-समपाद
॥१०॥