________________
मरिज्जा वा ॥३॥ आत्मार्थ-स्वप्रयोजनं, परार्थं वा-परप्रयोजनम् , उभयस्य-आत्मनः परस्य च प्रयोजन इति गम्यम् , अन्तरेण वा-विना वा प्रयोजनमेवेति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृतदोषपरिहारमाह
समरेसु अगारेसु, संधिसु य महापहे । एगो एगित्थीए सद्धिं, नेव चिट्टे न संलवे ॥२६॥ व्याख्या-समरेषु-खरकुटीषु, तथा च चूर्णिकृत्-'समरं नाम जत्थ लोहारा हेहाकम्मं करेंति'। नीचास्पदानामुपलक्षणमेतत् । अगारेषु-गृहेषु गृहसंधिषु-गृहद्वयापान्तरालेषु महापथे-राजपथादौ, एकः-असहायः एकस्त्रिया साधं-सह नैव तिष्ठेत् नैवोवस्थानस्थो भवेत् , न संलेपत्-न तयैव सह संभाष कुर्यात् । अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम् , अन्यथा ससहायस्याऽपि ससहाययाऽपि स्त्रिया सहाऽवस्थानं संभाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् । उक्तञ्च-मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १॥ इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुमिः शिक्षितो यत् कुर्यात् तदाह
जं मे बुद्धाऽणुसासंति, सीएण फरसेण वा । मम लाभु त्ति पेहाए, पयओ तं पडिस्सुणे॥२७॥ व्याख्या-यन्मां बुद्धा अनुशासन्ति-शिक्षयन्ति, शीतेन-उपचाराच्छीतलेनाऽऽहादकेनेत्यर्थः, परुषेण वा-कर्कशेन वचसेति गम्यते, मम लाभः-अप्राप्तार्थप्राप्तिरूपोऽयं यन्मामनाचारकारिणममी शासन्तीति प्रेक्षया-एवंविधबुद्ध्या, प्रयत्नः-प्रयत्नवांस्तत्-अनुशासनं प्रतिशृणुयात्-विधेयतया अङ्गीकुर्यादिति सूत्रार्थः ।। २७ ॥ किमिह परत्र चाऽत्यन्तोपकारि गुरुवचनमपि कस्यचिदनिष्टं स्याद् येनैवमुपदिश्यते इत्याह
१ समरं नाम बत्र लोहकाराः अधःकर्म कुर्वन्ति ।