SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिच- न्द्रीयवृत्तिः प्रथमं विनयाध्ययनम्। ॥११॥ त्मकेन सकलान्यधार्मिकविलक्षणेन न तु "वस्त्रं छत्रं छात्रं पात्रं याष्टिं च चर्चयेद्भिक्षुः । वेषेण परिकरेण च कियताऽपि विना न भिक्षाऽपि ॥१॥” इत्यादिवचनाऽऽकर्णनाद् विभूषणात्मकेन एषित्वा-गवेषयित्वा, अनेन च गवेषणोक्ता । ग्रासैषणामाह-मितं-परिमितं, अमितभोजनात् स्वाध्यायविधातादिबहुदोषसंभवात् , कालेन-"नमोक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्टवित्ता णं, वीसमेज खणं मुणी ॥ ३ ॥” इत्याद्यागमोक्तप्रस्तावेनाऽद्भुताऽविलम्बितरूपेण वा भक्षयेद्-भुञ्जीतेति सूत्रार्थः ॥ ३२ ॥ भिक्षाचयाँ कुर्वता पुराप्रविष्टाऽन्यभिक्षुकसंभवे यत् कृत्यं तदाह नाइदूरमणासन्ने, नन्नसिं चक्खुफासओ। एगो चिटेज भत्तटुं, लंघित्ता तं नइक्कमे ॥३३॥ व्याख्या-'नाइदूर' ति विभक्तिव्यत्ययाद् नाऽतिदूरे-विप्रकर्षवति देशे, तत्र निर्गमाऽनवगमादेषणाशुद्ध्यसंभवाच्च ।। तथा नासन्ने-प्रस्तावान्नाऽतिनिकटे तत्र पुराप्रविष्टाऽपरभिक्षुकाऽप्रीतिसंभवात् । नाऽन्येषां-मिनुकाऽपेक्षया अपरेषां गृहस्थानां, चक्षुःस्पर्श-सप्तम्यर्थे तस् , दृष्टिगोचरे, तिष्ठेदिति सर्वत्र योग्यम् । किन्तु विविक्तप्रदेशे यथा गृहिणो न विदन्ति, यदुतेष भिक्षुकनिःक्रमणं प्रतीक्षत इति । एक:-ममाऽमी भिक्षाचर्याविघ्नं कुर्वन्तीति तदुपरि द्वेषरहितो भक्तार्थ-भोजननिमित्तं 'लंघित्ते' त्ति उल्लचय तमिति-भिक्षुकं नाऽतिकामेत, तदप्रीत्यपवादादिसंभवात् । इहं च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनाऽभिधानं तद् ग्लानादिनिमित्तं स्वयं वा बुभुक्षावेदनीयमसहिष्णोः पुनर्भेमणमपि न दोषायेति ज्ञापनार्थम् । उक्तश्च-जइ तेण न संथरे । तओ कारणमुप्पन्ने भत्तपाणं गवेसए ॥१॥ इति सूत्रार्थः ॥ ३३ ॥ पुनस्तद्गतमेव विधिमाह १ नमस्कारेण पारयित्वा कृत्वा जिनसंतवम् । स्वाध्यायं प्रस्थाप्य विश्राम्येत् क्षणं मुनिः॥३॥ २ यदि तेन न संस्तरेत् । ततः कारण उत्पने, भक्तपानं गवेषयेत् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy