________________
श्रीउत्तराध्ययन सूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥ १६२ ॥
भिन्नक्रम, ततो दुर्लभैव, किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यौलूक्या दिकुपाखण्डिपर्युपासकः 'जनः' लोकः, कुतीर्थिनो हि लाभाद्यर्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति तत्तीर्थकृतामप्येवंविधत्वात् । उक्तं हि - "सत्कारयशोलाभार्थिभिश्च मूढैरिहान्यतीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपध्यान्युपदिशद्भिः || १ ||" इति ॥ सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्म्मश्रुतिः १, अतः समयमपि गौतम ! मा प्रमादीः । किञ्च - लब्ध्वाऽपि उत्तमां 'श्रुतिम्' उत्तमधर्म्मश्रवणात्मिकां श्रद्धानं पुनरपि दुर्लभम् इह हेतुमाह – मिध्यात्वनिषेवकः जनः, अनादिभवाभ्यास्तया गुरुकर्म्मतया च तत्रैव प्रायः प्रवृत्तेः, अतः समयमपीति पूर्ववत् ॥ अन्यश्च 'धर्म्ममपि' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपि ' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः श्रद्दधतोऽपि कर्त्तुमभिलषतोऽपि दुर्लभकाः 'कायेन' शरीरेण 'स्पर्शका : ' अनुष्ठातारः, कारणमाह – 'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूर्च्छिताः' गृद्धा जन्तव इति शेषः । प्रायेणाऽपथ्येष्वभिष्वङ्गः प्राणिनाम् । यत उक्तम् — “प्रायेण हि यदपध्यं, तदेव चाऽऽतुरजनप्रियं भवति । विषयातुरस्य जगतो, यथानुकूलाः प्रिया विषयाः ॥ १ ॥” यतश्चैवमतो दुरापामिमां सामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपचकार्थः ॥ अन्यच्च सति शरीरसामर्थ्य धर्मस्पर्शनेति तदनित्यताभिधानद्वारेणाप्रमादोपदेशमाह -
परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते ।
से सोयबले य हायई, समयं गोयम ! मा पमायए ॥ २१ ॥ परिजूरह ते सरीरयं, केसा पंडुरया हवंति ते ।
से चक्खुबले य हायई, समयं गोयम ! मा पमायए ॥ २२ ॥
दशमं द्रुम
पत्राख्य
मध्ययनम् ।
अप्रमादार्थ वीरप्रभोरनु
शासनम् ।
॥ १६२ ॥