________________
अप्रमादार्थ वीरप्रभोरनु| शासनम् ।
अहीणपंचिंदियत्तं पिसे लहे, उत्तमधम्मसुई हु दुल्लहा । कृतिस्थिनिसेवए जणे, समयं गोयम! मा पमायए ॥ १८॥ लद्धृणऽवि उत्तमं सुई, सद्दहणा पुणरावि दुल्लभा। मिच्छत्तनिसेवए जणे, समयं गोयम! मा पमायए ॥ १९॥ धम्मं पिहु सद्दहंतया, दुल्लभया काएण फासया।
इह कामगुणेहिं मुच्छिया, समयं गोयम! मा पमायए ॥२०॥ व्याख्या-लब्ध्वाऽपि मानुषत्वम् 'आर्यत्वं' मगधाचार्यदेशोत्पत्तिलक्षणं 'पुनरपि भूयोऽपि दुर्लभम् ,किमिति ? आहबहवः 'दस्यवः' देशप्रत्यन्तवासिनश्चौराः, "मिलेक्खुय" त्ति 'म्लेच्छाः' अव्यक्तवाचो न यदुक्तमारवधार्यते, ते च शकयवनादिदेशोद्भवाः। उक्तञ्च-सगजवणसबरबब्बरकायमुरुडोडगोट्ठपक्कणिया । अरवागहोणरोमसपारसखसखासिया चेव ॥१॥ दुबिलयलउसबोकसभिल्लंघपुलिंदकुंधभमररुया। कुंचायचीणचंचुयमालवदमिला कुलग्घाया ॥२॥ केकयकिरायखरमुहगयमुह तह तुरगमिंढगमुहा य । यकन्ना गयकन्ना, अन्ने य अणारिया बहवे ॥३॥ पावा पयंडदंडा, निरणुतावा य निग्घिणा कूरा। धम्मे परंगमेयरमाई जेसुं न ववहारो॥४॥ मनुजत्वमवाप्याऽपि बहवस्तेषु जन्तव उत्पद्यन्ते । अतः समयमपि गौतम! मा प्रमादीः। इत्थमार्यत्वमपि दुर्लभम् , तदपि लब्ध्वाऽपि आर्यत्वं अहीनपञ्चेन्द्रियता, 'हुरवधारणे, दुर्लभैव । इहैव हेतुमाहविकलानि-रोगादिभिरुपहतानि इन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, 'हुरिति निपातोऽनेकार्थतया बाहुल्यवाचकः, ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते, ततोऽहीनपञ्चेन्द्रियता दुर्लभैव । तथा च समयमपि गौतम! मा प्रमादीः। तथा कथञ्चिदहीनपश्चेन्द्रियतामपि 'सः' जन्तुर्लभेत तथापि 'उत्तमधर्मश्रुतिः' तच्छ्रवणात्मिका 'हुरवधारणे