________________
टिक
दशमं दुमपत्राख्यमध्ययनम् ।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुकृचिः ।
अप्रमादार्थ
वीरप्रभोरनुशासनम् ।
॥१६
॥
मिति गम्यते, तिष्ठति लम्बमानकः। एवं मनुजानां जीवितम् , अतः समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥२॥ अमुमेवार्थमुपसंहरनुपदेशमाह
इइ इत्तरियम्मि आउए, जीवियए बहुपच्चवायए।
विहुणाहि रयं पुरेकडं, समयं गोयम ! मा पमायए ॥ ३ ॥ व्याख्या-'इति' उक्तन्यायेन 'इत्वरे' स्वल्पकालभाविनि एति-उपक्रमहेतुभिः अनपवर्त्यतया यथास्थित्यैवानुभवनीयतां गच्छतीति आयुः, तञ्चैवं निरुपक्रममेव तस्मिन् , तथाऽनुकम्पितं जीवितकं, चशब्दस्य गम्यमानत्वात् तस्मिंश्च अर्थात् सोपक्रमायुषि, बहवः-प्रभूताः प्रत्यपायाः-उपघातहेतवोऽध्यवसाननिमित्तादयो यस्मिंस्तत्तथा, अनेन चानुकम्पिताहेतुराविष्कृतः । एवं चोक्तरूपद्रुमपत्रोदाहरणतः कुशाग्रजलबिन्दूदाहरणतश्च मनुजायुर्निरुपक्रमं सोपक्रमं च तुच्छमिति, त्वमतोऽस्यानित्यतां मत्वा 'विधुनीहि' जीवात् पृथक् कुरु 'रजः' कर्म "पुरेकडं" ति पुरा-पूर्व तत्कालापेक्षया कृतंविहितं । तद्विधुवनोपायमाह-समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः ॥३॥ स्यात्-पुनर्मनुष्यभवावाप्तौ उद्यस्याम इत्याह
दुलहे खलु माणुसे भवे, चिरकालेण वि सबपाणिणं ।
गाढा य विवाग कम्मुणो, समयं गोयम! मा पमायए ॥४॥ व्याख्या-'दुर्लभः' दुरवापः 'खलुः' विशेषणे, अकृतसुकृतानामिति विशेषणं द्योतयति, 'मानुषः' मनुष्यसम्बन्धी भवः' जन्म 'चिरकालेनापि' प्रभूतकालेनापि आस्तामल्पकालेन इत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वेषामपि जीवानाम् , किमिति दुर्लभः मनुष्यभवः' इत्याह-'गाढाः' विनाशयितुमशक्यतया दृढाः, 'च' इति यस्मात्, "विवाग कम्मुणो" त्ति
॥१६॥