SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ चिकीर्षुराह नियुक्तिकृत् गाथात्रयम् — “परियेट्टियलायनं, चलंतसंधिं मुयंतविंटागं । पत्तं च बसणपसं, कालप्पत्तं भणइ गाई ॥ १ ॥ जह तुम्भे तह अम्हे, तुब्भे वि य होहिहा जहा अम्हे । अप्पाहेर पडतं, पंडुयपत्तं किसलयाणं ॥ २ ॥” किमेवं पाण्डुपत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह— " नेवि अत्थि नवि य होही, उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया, भवियजणविबोहणट्ठाए ||३||” भणितं चागमविद्भिः – “चरियं च कप्पियं वा, आहरणं दुविहमेव नायवं । अत्थस्स साहणट्ठा, इंघणमिव ओयणट्ठाए ॥१॥" यथेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः । उक्तञ्च – “परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि, यौवनगवं किमुद्रहसि ? ॥ १ ॥” तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति सूत्रार्थः ॥ १ ॥ पुनरायुषोऽनित्यत्वं ख्यापयितुमाह कुसग्गे जह ओसबिंदुए, थोवं चिट्ठह लंबमाणए । एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥ २ ॥ व्याख्या – कुशाग्रे यथा 'अवश्यायबिन्दुकः' शरत्कालभाविऋक्ष्णवर्षबिन्दुः, स्वार्थे कप्रत्ययः, 'स्तोकम्' अल्पकाल १ "परिवर्तितलावण्यं, चलत्सन्धि मुञ्चद्वृन्तकम् । पत्रं च व्यसनप्राप्तं, कालप्राप्तं भणति गाथाम् ॥ १ ॥ यथा यूयं तथा वयं, यूयमपि च भविष्यथ यथा वयम् । सन्दिशति पतत् पाण्डुपत्रं किसलयानाम् ॥ २ ॥ " २ " नाप्यस्ति नापि च भविष्यत्युल्लापः किसलय- पाण्डुपत्रणाम् । उपमा खल्वेषा कृता, भविकजनविबोधनार्थम् ॥ ३ ॥” 4 "चरितं च कल्पितं वा उदाहरणं द्विविधमेव ज्ञातव्यम् । अर्थस्य साधनार्थ इन्धनमिवोदनार्थाय ॥ १ ॥ अप्रमादार्थ वीरप्रभोरनुशासनम् ।
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy