________________
चपलकुण्डलः स चासौ किरीटी व मुकुटवान् ललितच पलकुण्डलकिरीटीति सूत्रार्थः ॥ ६० ॥ स शक्रेणैवमभिष्ट्रयमानः किमुत्कर्षं कृतवान् उत न ? इत्याह
नमी नमेइ अप्पाणं, सक्खं सक्केण चोहओ । चइऊण गेहं वइदेही, सामन्ने पज्जुवडिओ ॥ ६१ ॥ व्याख्या – नमिः 'नमयति' स्वतत्त्वभावनया प्रह्वं करोति, कम् ? आत्मानं न तु उत्सेकं नयति । उक्तञ्च - " - "संतगुणकित्तणेण वि, पुरिसा लज्जंति जे महासत्ता । इयरे पुण अलियपसंसणे वि अंगे न मायंति ॥ १ ॥ " किम्भूतः सन् ? 'साक्षात्' प्रत्यक्षीभूय शक्रेण 'चोदितः' प्रेरितः त्यक्त्वा गेहं “वइदेहि” त्ति सूत्रत्वात् 'विदेही' विदेहजनपदाधिपः श्रामण्ये 'पर्युपस्थितः ' उद्यतः, न तु तत्प्रेरणातोऽपि धर्मं प्रति विप्लुतोऽभूदिति सूत्रार्थः ॥ ६१ ॥ किमेष एवैवंविध उत अन्योऽपि ? इत्याह
एवं करेंति संबुद्धा, पंडिया पवियक्खणा । विणियद्वंति भोगेसु, जहा से णमी रायरिसि ॥ ६२ ॥ त्ति बेमि ॥
व्याख्या - एवमि' ति यथैतेन नमिना निश्चलत्वं कृतं तथाऽन्येऽपि कुर्वन्ति । कीदृशाः ? - 'सम्बुद्धाः ' अवगतजीवाऽजीवादितत्त्वाः 'पण्डिताः' सुनिश्चितशास्त्रार्थाः 'प्रविचक्षणाः' अभ्यासातिशयात् क्रियां प्रति प्रावीण्यवन्तः, तथाविधाश्च सन्तः किं कुर्वन्ति ? 'विनिवर्त्तन्ते' उपरमन्ति “भोगेसु” त्ति भोगेभ्यः, यथा स नमी राजर्षिस्तेभ्यो निवृत्तः, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥
॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुखबोधायां नमिप्रव्रज्याख्यं नवममध्ययनं समाप्तम् ॥
१ “सद्गुणकीर्तनेनाऽपि, पुरुषा लज्जन्ते ये महासत्त्वाः । इतरे पुनरलीकप्रशंसनेऽपि अङ्गे न मान्ति ॥ १ ॥”
XOXOXCX
नमिराजर्षेः सौत्रीवक्तव्यता ।