________________
नमिराजर्षेः
सौत्रीवक्तव्यता।
सर्पः तदुपमाः, किञ्च कामान् ‘प्रार्थयमानाः' अपेर्गम्यमानत्वात् प्रार्थयमाना अपि 'अकामाः' इष्यमाणकामाभावाद् यान्ति दुर्गतिमिति कथं तत्त्याग आश्चर्यम् ? असद्भोगप्रार्थनमपि यद् भवता सम्भावितं तदप्यसङ्गतम् , मुमुक्षुणां क्वचिदाकाङ्काया असम्भवात् । उक्तं हि-"मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः।" इति सूत्रार्थः ।। ५३ ॥ कथं पुनः कामान प्रार्थयमाना दुर्गतिं यान्ति ? अत आह___ अहे वयइ कोहेणं, माणेण अहमा गई। माया गइपडिग्घाओ, लोभाओ दुहओ भयं ॥५४॥ - व्याख्या-'अधः' नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, "माय" त्ति सुव्यत्ययात् मायया गतेः-प्रस्तावात् | सुगतेः प्रतिघातः-विनाशो गतिप्रतिघातः, लोभाद् "दुहउ" त्ति द्विधा' द्विप्रकारं-ऐहिकं पारत्रिकं च 'भयं' अनेकदुःखसम्पाताशङ्कया साध्वसं भवतीति सर्वत्र गम्यते । कामेषु हि प्रार्थ्यमानेष्ववश्यंभाविनः क्रोधादयस्ते चेदृशा इति कथं न तत्प्रार्थनातो दुर्गतिरिति सूत्रार्थः ॥ ५४ ॥ एवं बहुभिरप्युपायैस्तमिन्द्रः क्षोभयितुमशक्तः किमकरोत् ? इत्याह| अवउज्झिऊण माहणरूवं विउरुविऊण इंदत्तं । वंदइ अभित्थुणंतो, इमाहि मधुराहि वग्गूहिं॥५५॥ अहो ते निजिओकोहो, अहोमाणो पराजिओ। अहो ते निरकिया माया, अहो लोभोवसीकओ५६ अहो ते अजवं साहू!, अहो ते साहु ! मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा ॥५॥
व्याख्या-'अपोह्य' त्यक्त्वा ब्राह्मणरूपं "विउरुविऊण" त्ति विकृत्य 'इन्द्रत्वम्' उत्तरवैक्रियरूपं 'वन्दते' अनेकार्थत्वात् प्रणमति 'अभिष्ठुवन्' स्तुतिं कुर्वन् 'आभिः' अनन्तरं वक्ष्यमाणाभिः 'मधुराभिः' श्रुतिसुखाभिः 'वाग्भिः' वाणीभिः । तद्यथा-'अहो' इति विस्मये, 'ते' त्वया निर्जितः क्रोधः, यतस्त्वमनमत्पार्थिववशीकरणप्रेरणायामपि न
१ यथा ह्ययमहरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाज्यते, स्पर्शनादिमिरनुभूयमानश्च विनाशायैव भवति ।