SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ नवमं पानेमिच- याच समस्तं 'न नमिप्रवज्याऽऽख्यमध्ययनम्। नमिराजर्षेः सौत्रीवक्तव्यता। श्रीउत्तरा आकाशसमा, 'अनन्तिका' अन्तरहिता । उक्तञ्च-न सहस्राद्भवेत्तुष्टि-न लक्षान्न च कोटितः । न राज्यान्नैव देवत्वाध्ययनसूत्रे xनेन्द्रत्वादपि देहिनाम् ॥ १॥" तथा 'पृथ्वी' मही 'शालयः' लोहितशाल्यादयः ‘यवाः' प्रतीताः, 'चः' शेषधान्यसमुच्च | यार्थः, 'एवः' अवधारणे स च भिन्नक्रमो योक्ष्यते, 'हिरण्यं' सुवर्णं, ताम्राद्युपलक्षणमेतत् , 'पशुभिः' गवाश्वादिभिः सह न्द्रीया 'प्रतिपूर्ण' समस्तं 'न' नैव 'अलं' समर्थं प्रक्रमाद् इच्छापूर्तये एकस्य जन्तोरिति गम्यते । 'इति' एतत् पूर्वोक्तं "विज" त्ति सुखबोधा सूत्रत्वाद् विदित्वा 'तपः' द्वादशविधं चरेत् , तत एव निःस्पृहतया इच्छापरिपूर्तिसम्भवादिति सूत्रार्थः ॥ ४८-४९ ॥ ख्या लघु एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥५०॥ वृत्तिः । अच्छेरगमब्भुदए, भोए चयसि पत्थिवा!। असंते कामे पत्थेसि, संकप्पेण विहन्नसि॥५१॥ ॥१५॥ व्याख्या-'अच्छेरगं" ति आश्चर्य वर्त्तते यत् त्वमेवंविधः 'अद्भतान्' आश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव !, तत्त्यागतश्च 'असतः' अविद्यमानान् कामान प्रार्थयसि, तदप्याश्चर्यमिति सम्बन्धः, अथवा कस्तवात्र दोषः ? –'सङ्कल्पेन' उत्तरोत्तराप्राप्तभोगाभिलाषरूपेण विकल्पेन 'विहन्यसे' बाध्यसे, अपर्यवसितत्वाद् एवंविधसङ्कल्पस्य । उक्तं हि-"अमीषां स्थूलसूक्ष्माणामिन्द्रियार्थविधायिनाम् । शक्रादयोऽपि नो तृप्ति, विषयाणामुपागताः ॥ १॥” इति सूत्रार्थः ॥५१॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥५२॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जति दुग्गई ॥५३॥ व्याख्या-शल्यमिव शल्यं कामाः, विषमिव विषं कामाः, कामाः 'आशीविषोपमाः' आशीविषः१ शलति-देहान्तश्चलतीति शल्यम्-शरीरान्तः प्रविष्टं तोमरादि, यथा शल्यं अन्तश्चलद्विविधबाधाविधायि तथैतेऽपि। २ वेवेष्टि-व्यामोतीति विषं-तालपुटादि भुज्यमानमधुरमिव । १॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy