________________
उ० अ० २६
दिभिः कथितः स्वाख्यातः, स्वाख्यातो धम्र्म्मो यस्य स स्वाख्यातधर्म्मः - चारित्री तस्य 'कलां' भागं 'नार्घति' नार्हति षोडशीम्, इदमुक्तं भवति — षोडशांशसमोऽपि न भवति, अतो गृहाश्रमादयमेव श्रेयानिति सूत्रार्थः ॥ ४४ ॥
एयमहं निसामेत्ता, हेऊकारणचोइओ । तओ नमिं रायरिसिं, देविंदो इणमव्यवी ॥ ४५ ॥ पुनर्निरभिष्वङ्गतां परीक्षितुमिन्द्र उवाच -
हिरन्नं सुवन्नं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वद्धावइत्ता णं, तओ गच्छसि खत्तिया ! ॥ ४६ ॥
व्याख्या- 'हिरण्यं' घटितसुवर्णम्, इतरत्तु सुवर्णम्, मणयः - चन्द्रकान्तनीलाद्याः मुक्ताश्च - मौक्तिकानि मणिमुक्तम्, 'कांस्यं' कांस्य भाजनादि, 'दूष्यं' वत्रं, 'चः' स्वगतानेकभेदसूचकः, 'वाहनं' रथाऽश्वादि, 'कोश' भाण्डागारं चर्मलताद्यनेकवस्तुरूपं, 'वर्द्धयित्वा' वृद्धिं प्राप्य ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ ४६ ॥
एयम निसामेत्ता, हेऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४७ ॥ सुवन्नरुप्पस्स उ पवया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥ ४८ ॥ पुढवी साली जवा चेव, हिरन्नं पसुभिस्सह । पडिपुन्नं नालमेगस्स, इति विज्जा तवं चरे ॥ ४९ ॥ व्याख्या—सुवर्णं च रूप्यं सुवर्णरूप्यं तस्य 'तुः' पुरणे, 'पर्वताः' पर्वतप्रमाणा राशयः “भवे" त्ति भवेयुः 'स्यात्' कदाचित्, 'हु:' अवधारणे भिन्नक्रम, ततः 'कैलाससमा एव' कैलासपर्वततुल्या एव न तु लघुपर्वतप्रमाणाः, कैलासश्च मेरुरिति वृद्धाः । तेऽपि 'असङ्ख्यकाः' सङ्ख्यारहिताः । नरस्य लुब्धस्य न 'तैः' तादृशैरपि सुवर्णरूप्यपर्वतैः 'किञ्चिदपि ' स्वल्पमपि परितोषकारणमिति गम्यते । कुतः पुनरिदम्? इत्याह- 'इच्छा' अभिलाषः 'हुरि 'ति यस्माद् आकाशेन समा-तुल्या
XCXCXXXCXCXCXCXXXX
नमिराजर्षेः सौत्री
वक्तव्यता ।