________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥१५०॥
kOXOXOXOXOXXXXXXXX
दानानि, धर्मोपकरणानि च । साधुभ्यः साधुयोग्यानि, देयानि विधिना बुधैः ॥ १॥" शेषाणि तु सुवर्णगोभूम्यादीनि प्राण्युपमईहेतुतया सावद्यान्येवेति सूत्रार्थः ॥ ४० ॥
एयमढें निसामेत्ता, हेऊकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥४१॥ व्याख्या-प्राग्वत् ॥४१॥नवरमित्थं जिनधर्मस्थिरतामवधार्य प्रव्रज्यां प्रति दृढतां परीक्षितुकाम इदमवादीत् शक्रःघोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरतो, भवाहि मणुयाहिवा!॥४२॥ व्याख्या-घोरः-अत्यन्तदुरनुचरः स चासावाश्रमश्च 'घोराश्रमः' गार्हस्थ्यम्, तस्यैवाऽल्पसत्त्वैर्दुष्करत्वात् । उक्तञ्च-“गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाखण्डमाश्रिताः ॥ १॥” तं त्यक्त्वा अन्यं प्रार्थयसि 'आश्रम' प्रव्रज्यालक्षणम् , नेदं क्लीबसत्त्वानुचरितं भवाशामुचितम् । तर्हि किमुचितम् || इत्याह-'इह' अस्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधः-अष्टम्यादितिथिषु व्रतविशेषः तत्र रतः पौषधरतो |भव, अणुव्रतायुपलक्षणमेतत् , अस्यैव चोपादानं पौषधदिनेष्ववश्यं भावतस्तपोऽनुष्ठानख्यापकम् । यत उक्तम्"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पञ्चदश्याञ्च, नियतं पौषधं वसेत् ॥ १॥” इति हे मनुजाधिप !| इति सूत्रार्थः ॥ ४२ ॥ | एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ४३ ॥ |मासे मासे उ जो बालो, कुसग्गेणं तु भुंजए। ण सो सुक्खातधम्मस्स, कलं अग्घइ सोलसिं ॥४४॥
व्याख्या-मासे मासे एव न त्वर्द्धमासादौ 'यः' कश्चित् 'बालः' अविवेकः 'कुशाग्रेणैव' दर्भाग्रेणैव भुङ्क्ते न तु करागुल्यादिभिः, 'ने'ति निषेधे, 'सः' एवंविधः कष्टानुष्ठायी सुष्टु-शोभनः सर्वसावद्यविरतिरूपत्वाद् आख्यातः-तीर्थकरा
नवमं नमिप्रवज्याऽऽख्यमध्ययनम्। | प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
॥१५०॥