________________
XXXXXXXXXXXX
प्रायोति। कथमात्मन्येव जिते सुखावाप्तिः ? इत्याह--'पञ्चेन्द्रियाणि' श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च प्रत्येकबुद्धदुर्जयः, 'चैवेति चः समुच्चये, एव पूरणे, अतति-गच्छति तानि तान्यध्यवसायस्थानान्तराणीति व्युत्पत्तेः 'आत्मा' मनः, चतुष्टयस्य सर्वत्र च सूत्रत्वान्नपुंसकनिर्देशः । 'सर्वम्' अशेषम् इन्द्रियादि उपलक्षणत्वाद् मिथ्यात्वादि च 'आत्मनि' जीवे जिते मोक्षगमजितमिति सूत्रत्रयार्थः ॥ ३४-३५-३६ ॥
नम् । एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥३७॥ नमिराजर्षेः | व्याख्या-प्राग्वत् ॥३७॥ नवरमेतावता तदुपशमं निश्चित्य जिनधर्म प्रति स्थैर्य परीक्षितुकामः शक्र इदमवोचत्-IX सौत्रीजइत्ता विउले जन्ने, भोइत्ता समणमाहणे। दच्चा भोचा य जट्ठा य, ततो गच्छसि खत्तिया!॥३८॥ वक्तव्यता।
व्याख्या--याजयित्वा 'विपुलान्' विस्तीर्णान् यज्ञान , भोजयित्वा श्रमणब्राह्मणान् , दत्त्वा द्विजादिभ्यो गवादीन् , भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ।। ३८ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ ३९॥ जो सहस्सं सहस्साणं, मासे मासे गवं दए। तस्सावि संजमो सेओ, अदितस्स वि किंचणं ॥४०॥ __व्याख्या-यः 'सहस्रं सहस्राणां' दशलक्षात्मकं मासे मासे गवां दद्यात् 'तस्याऽपि' एवंविधस्य दातुः 'संयमः' आश्रवादिविरमणात्मकः श्रेयान्' अतिशयप्रशस्यः, कथम्भूतस्यापि 'अददतोऽपि' अयच्छतोऽपि 'किश्चन' स्वल्पमपि वस्तु । एवं च संयमस्य प्रशस्यतरत्वमभिदधता यागादीनां सावद्यत्वं अर्थादावेदितम् । तथा च यज्ञप्रणेतृभिरुक्तम्"षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥१॥" इयत्पशुवधे च कथमसाबद्यता? । तथा दानान्यपि अशनादिविषयाणि धर्मोपकरणगोचराणि च धर्माय वर्ण्यन्ते ?, यत आह-"अशनादीनि