SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । कृत्वेत्युपलक्ष्यते । तपः-अनशनादि बाह्य तत्प्रधानः संवरस्तम् अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा । 'क्षान्ति' क्षमा |'निपुणं' सर्वपरिपूर्ण प्राकारं कृत्वा, तिसृभिः-अट्टालकोच्छूलकशतघ्नीसंस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं 'दुःप्रधर्ष' परैर्दुरभिभवं, प्राकारविशेषणे एते । इत्थं यदुक्तं 'प्राकारादीन् कारयित्वे ति तत्प्रतिवचनमुक्तम् । सम्प्रति तु प्राकाराडालकेष्ववश्यमेव योद्धव्यम् , तच्च सत्सु प्रहरणादिषु सति च वैरिणि सम्भवत्यत आह–'धनुः' कोदण्डं 'पराक्रम' जीववीर्योल्लासरूपमुसत्साहं कृत्वा, 'जीवां च' प्रत्यञ्चां चेर्यासमितिम् उपलक्षणत्वाच्छेषसमितीश्च 'सदा' सर्वकालम् , |'धृतिं च' धर्माभिरतिरूपां 'केतनं' शृङ्गमयधनुर्मध्ये काष्ठमयमुष्ट्यात्मकम् । ननु तदुपरि स्नायुना बध्यते इदं तु केन बन्धनीयम् ? इत्याह-'सत्येन' मनःसत्यादिना "पलिमंथए" त्ति बध्नीयात् । ततः किम् ? इत्याह-तपः-पडिधमान्तरं तदेव नाराचः-अयोमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा 'भित्त्वा' विदार्य कर्मकञ्चकम् , कर्मग्रहणेन चात्मैवोद्धतो वैरीत्युक्तं भवति । वक्ष्यति च-"अप्पा मित्तममित्तं च, दुप्पट्ठियसुपट्ठिए" त्ति । 'मुनिः' यतिः कर्मभेदे जेयस्य जितत्वाद् विगतः सङ्ग्रामो यस्य स विगतसङ्घामः भवात्' संसारात् परिमुच्यते । एतेन सूत्रत्रयेण यदुक्तं 'प्राकार कारयित्वे'त्यादि तस्य सिद्धसाधनता उक्तेति सूत्रत्रयार्थः ॥ २०-२१-२२ ॥ एयमहूँ निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ता णं, वद्धमाणगिहाणि य । वालग्गपोत्तियाओ य,तओ गच्छसि खत्तिया!॥२४॥ | व्याख्या-प्रासादान् कारयित्वा 'वर्द्धमानगृहाणि च' अनेकधा वास्तुविद्याभिहितानि "वालग्गपोइयाओ य" त्ति देशीयपदं वलभीवाचकं, ततो वलभीश्च कारयित्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २४ ॥ एयम निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २५॥ नवमं नमिप्रवज्याऽऽख्यमध्ययनम् । प्रत्येकबुद्धचतुष्टयस्य मोक्षगम नम् । नमिराजर्षेः सौत्रीवक्तव्यता। ॥१४८॥ ॥१४८
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy