SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रत्येकबुद्धचतुष्टयस्य मोक्षगम नम् । नमिराजर्षे: सौत्रीवक्तव्यता। व्याख्या-त्यक्तपुत्रकलत्रस्य ' निर्व्यापारस्य' परिहृतकृषिपाशपाल्यादिक्रियस्य भिक्षोः 'प्रियम्' इष्टं न विद्यते 'किश्चित्' अल्पमपि 'अप्रियमपि' अनिष्टमपि न विद्यते । एतेन यदुक्तं 'नास्ति किकाने ति तत् समर्थितम् । एवमपि कथं सुखेन वसनं जीवनं च? इत्याह-'बहु' विपुलं खुः' अवधारणे, बहेव 'मुनेः' त्रिकालवेदिनः 'भद्रं सुखम् अनगारस्य भिक्षोः 'सर्वतः' बाह्याभ्यन्तराञ्च परिग्रहादिति गम्यते, विप्रमुक्तस्य 'एकान्तम्' एकत्वभावनात्मकम् 'अनुपश्यतः' पर्यालोचयत इति सूत्रद्वयार्थः ॥ १५-१६ ॥ एयम१ निसामेत्ता, हेऊकारणचोडओतओ नमि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ पागारं कारइत्ता णं, गोपुरद्दालगाणि य । उस्सूलग सयग्घीओ, तओ गच्छसि खत्तिया!॥१८॥ व्याख्या-पष्टम् । 'प्राकार' सालं कारयित्वा 'गोपुराऽट्टालकानि च' तत्र गोपुराणि-प्रतोलीद्वाराणि, गोपुरप्रहणम् अर्गलाकपाटोपलक्षणम्, अट्टालकानि-प्राकारकोष्टकोपरिवर्तीनि आयोधनस्थानानि । “उस्सूलग" त्ति खादिका, | "सयग्घीउ" त्ति 'शतघ्न्यः' यत्ररूपाः, तत एवं सर्व निराफुलीकृत्य 'गच्छसी ति तिब्व्यत्ययाद् गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ १७-१८॥ एयम निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १९॥ सद्धं नगरं किच्चा, तवसंवरमग्गलं । खंतिं निउण पागारं, तिगुत्तं दुप्पहंसगं ॥२०॥ ध' परक्कम किच्चा, जीवं च इरियं सदा । धियं च केयणं किच्चा, सच्चेण पलिमंथए ॥ २१॥ तवनारायजुत्तेण, भेत्तूणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चइ ॥ २२॥ व्याख्या-'श्रद्धा' तत्त्वरुचिरूपाम् अशेषगुणाधारतया नगरं 'कृत्वा' विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy