________________
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः
सौत्रीवक्तव्यता।
|संसयं खलु सो कुणइ, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेजा, तत्थ कुवेज सासयं ॥२६॥ ___ व्याख्या-'संशयः' सन्देहः 'खलु' एवकारार्थे, ततश्च संशयमेव स कुरुते, यथा-कदाचिन्मम गमनं न भविष्यतीति, यो मार्गे कुरुते गृहम् , गमननिश्चये तत्करणायोगात् । किमिति गमननिश्चये मार्गे गृहं न क्रियते ? इत्याह'यत्रैव' विवक्षितप्रदेशे 'गन्तुं' यातुं इच्छेत् "तत्थे" ति अवधारणफलत्वाद् वाक्यस्य तत्रैव कुर्वीत स्वस्य-आत्मनः आश्रयः
स्वाश्रयस्तम् । ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायमेव, यत्र तु जिगमिषितमस्माभिः तद् मुक्तिपदम् , XI तदाश्रयविधाने च प्रवृत्ता एव वयमिति सूत्रार्थः ॥ २६ ॥ एयमढे निसामेत्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ २७ ॥
आमोसे लोमहारे य, गंठिभेए य तक्करे । णगरस्स खेमं काऊण, तओ गच्छसि खत्तिया! ॥२८॥ ___ व्याख्या-आ-समन्ताद् मुष्णन्ति-स्तैन्यं कुर्वन्तीत्यामोषास्तान , लोमहारा:-ये निस्तूंशतया आत्मविघाताऽऽशङ्कया |च प्राणान् विहत्यैव सर्वस्वमपहरन्ति । तथा च वृद्धा:-लोमाहाराः प्राणहारा इति, तांश्च, ग्रन्थिभेदाः-ये घुघुरक|द्विकर्तिकादिना ग्रन्थि भिन्दन्ति तांश्च, 'चशब्दः' भिन्नक्रमः, ततः 'तस्करांश्च' सर्वकालं चौर्यकारिणः, इह चोत्साद्येति गम्यते, नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! इति सूत्रार्थः ॥ २८ ॥ एयमझु निसामेत्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२९॥ असई उ मणुस्सेहिं, मिच्छादंडो पउंजए। अकारिणोऽत्थ बज्झंति, मुच्चई कारओ जणो ॥३०॥
व्याख्या-'असकृत्' अनेकधा 'तुः' एवकारार्थे, ततश्चाऽसकृदेव 'मनुष्यैः' मनुजैः, मिथ्या-व्यलीकः, किमुक्तं भवति ?-अनपराधिष्वप्यज्ञानाभिनिवेशादिभिः दण्डः-देशत्यागशरीरनिग्रहादिः 'प्रयुज्यते' व्यापार्यते । कथामिदम् ।