________________
XXX
xoxoxoxoxoxoxox
मिहिलाए चेहए वच्छे, सीयच्छाए मणोरमे । पत्तपुष्पफलोवेए, बहूणं बहुगुणे सया ॥ ९ ॥ व्याख्या – 'मिथिलायां' पुरि, चितिः - इह प्रस्तावात् पत्रपुष्पाद्युपचयस्तत्र साधु चित्यं चित्यमेव चैत्यं - उद्यानं तस्मिन्, "वच्छे" त्ति सूत्रत्वाद् हिलोपे वृक्षैः 'शीतच्छाये' शीतलच्छाये 'मनोरमे ' मनोरमाभिधाने, पत्रपुष्पफलोपेते 'बहूनां' प्रक्रमात् खगादीनां 'बहुगुणे' फलादिभिः प्रचुरोपकारकारिणि 'सदा' सर्वकालमिति सूत्रार्थः ॥ ९॥ ततः किम् ? इत्याहवाएण हीरमाणम्मि, चेइयम्मि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो ! खगा ॥ १० ॥ व्याख्या – ' वातेन' वायुना 'व्हियमाणे' इतस्ततः क्षिप्यमाणे, वातश्च तदा शक्रेणैव कृत इति सम्प्रदायः । चितिःइहेष्टकादिचयस्तत्र साधुः– योग्यश्चित्यः स एव चैत्यस्तस्मिन्, किमुक्तं भवति ? – अधोबद्धपीठिके उपरि चोच्छ्रितपताके 'मनोरमे ' मनोभिरतिहेतौ वृक्षे इति शेषः । दुःखं सञ्जातं येषां ते दुःखिताः, 'अशरणाः' त्राणरहिताः अत एव 'आर्त्ताः' पीडिताः 'एते' प्रत्यक्षाः 'क्रन्दन्ति' आक्रन्दशब्दं कुर्वन्ति । 'भोः' इत्यामन्त्रणे, 'खगाः' पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्ते ? इति यत् स्वजनाक्रन्दनमुक्तं तत् खगाक्रन्दनप्रायम्, आत्मा च वृक्षकल्पः, तत्त्वतो हि नियतकालमेव सहावस्थितत्वेनोत्तरकालं च स्वगतिगामितया द्रुमाश्रितखगोपमा एवामी स्वजनादयः । उक्तं हि— “यद्वद् द्रुमे महति पक्षिगणा विचित्राः, कृत्वाऽऽश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वज्जगत्यसकृदेककुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ति ॥ १ ॥” ततञ्चाक्रन्दादिदारुणशब्दानामभिनिष्क्रमणहेतुत्वमसिद्धं स्वप्रयोजनहेतुकत्वातेषाम् । आह च - "आत्मार्थ सीदमानं स्वजनपरिजनो रौति हा हाऽऽरवार्त्तो, भार्या चात्मीयभोगं गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योऽन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च कश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ १ ॥ तथा च सति भवदुक्ते हेतुकारणे असिद्धे एवेत्युक्तं भवतीति सूत्रार्थः ॥ १० ॥
प्रत्येकबुद्ध
चतुष्टयस्य मोक्षगम
नम् । नमिराजर्षेः सौत्रीवक्तव्यता ।
1