________________
नवम
श्रीउत्तरा
प्रधाने, प्राकृतत्वात् सुव्यत्ययः, 'शक्रः' इन्द्रः 'माहनरूपेण' ब्राह्मणवेषेण आगत्येति शेषः, 'तदा हि' तस्मिन् महात्मनि ध्ययनमा प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम । ततः सः 'इदं' वक्ष्यमाणं वचनं 'अब्रवीत्' श्रीनेमिच
उक्तवानिति सूत्रार्थः॥६॥ यदुक्तवांस्तदाहन्द्रीया
किं नु भो अज्ज मिहिलाए, कोलाहलगसंकुला । सुवंति दारुणा सद्दा, पासाएसु गिहेसु य॥७॥ सुखबोधा
| व्याख्या-'किमिति प्रश्ने, 'नु' इति वितर्के, 'भोः' इत्यामश्रणे, अद्य 'मिथिलायां' नगऱ्या कोलाहलकेन-बहलकलख्या लघु
कलात्मकेन सङ्कुलाः कोलाहलकसकुलाः श्रूयन्ते 'दारुणाः' हृदयोद्वेगजनकाः 'शब्दाः' विलपिताक्रन्दितादयः, 'प्रासादेषु' कृत्तिः ।
देवतानरेन्द्रभवनेषु 'गृहेषु' तदितरेषु चशब्दात् त्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ ७ ॥ ततश्च-.
। एतमहं निसामेत्ता, हेऊकारणचोइओ। ततो नमी रायरिसी, देविंदं इणमब्बवी ॥८॥ ॥१४६॥
- व्याख्या-एतम्' अनन्तरोक्तमर्थं निशम्य हेतु:-पञ्चावयववाक्यरूपः कारणं च-अन्यथाऽनुपपत्तिमानं ताभ्यां चोदितः-प्रेरितो हेतुकारणचोदितः, 'कोलाहलकसङ्कुलाः शब्दाः श्रूयन्ते' इत्यनेन हि उभयमेतत् सूचितम् । तथाहि-अनुचितमिदं भवतोऽभिनिष्क्रमणमिति प्रतिज्ञा। आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः। प्राणव्यपरोपणवदिति दृष्टान्तः । यद् यद् आक्रन्दादिदारुणशब्दहेतु तत् तद् धर्मार्थिनोऽनुचितम् , यथा प्राणव्यपरोपणादि, तथा चेदं भवतो निष्क्रमणमित्युपनयः । तस्मादाक्रन्दादिदारुणशब्दहेतुत्वादनुचितं भवतोऽभिनिष्क्रमणमिति निगमनमिति । पञ्चावयववाक्यमिह हेतः। शेषावयवविवक्षारहितं तु आक्रन्दादिदारुणशब्दहेतुत्वं भवदभिनिष्क्रमणानुचितत्वं विनानुपपन्नमित्येतावन्मानं कारणम। अनयोस्तु पृथगुपादानं प्रतिपाद्यभेदतः साधनवाक्यवैचित्र्यसूचनार्थम् । 'ततः' प्रेरणानन्तरं नमी राजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८॥ किं तदुक्तवान् ? इत्याह
नमिप्रत्रज्याऽऽख्यमध्ययनम्। प्रत्येकबुद्धचतुष्टयस्य मोक्षगम_ नम्। नमिराजर्षेः KI सौत्री
वक्तव्यता।
॥१४६॥