SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रत्येकबुद्धचतुष्टयस्य मोक्षयम नम् । नमिराजर्षेः सौत्रीवक्तव्यता। बाल्यासः ' इत्यनन्तरमुद्दिष्टो 'देवलोकसदृशान्' देवलोकभोगतुल्यान, "अंतेउरवरगओ" त्ति वरान्तःपुरगतः 'वरान्' प्रधानान् 'भोगान' मनोज्ञशब्दादीन् 'भुक्त्वा' अनुभूय नमी राजा 'बुद्धः' विज्ञाततत्त्वो भोगान् परित्यजति । पुनर्भोगग्रहणम् अतिविस्मरणशीला अप्यनुप्राह्या एवेति ज्ञापनार्थमिति सूत्रार्थः ॥ ३ ॥ किञ्चमिहिलंसपुरजणवयं,बलमोरोहंच परियणं सवं। चेचा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां' मिथिलानाम्नी पुरीं 'सपुरजनपदां' पुरजनपदसमेतां 'बलं' हस्त्यादिचतुरङ्गं 'अवरोधं च' अन्तःपुरं 'परिजनं' परिवर्ग 'सर्व' निरवशेष 'त्यक्त्वा' अपहाय 'अभिनिष्क्रान्तः' प्रव्रजितः । 'एकान्तम्' द्रव्यतः-विजनम् | उद्यानादि, भावतश्च-'एकोऽहं न हि मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नाऽसौ दृश्योऽस्ति यो मम ॥१॥ इति भावनात एक एवाऽहमित्यन्तः-निश्चय एकान्तः तम् 'अधिष्ठितः आश्रितो भगवानिति सूत्रार्थः ॥४॥ तत्रैवमभिनिष्कामति यदभूत् तदाहकोलाहलगब्भूयं,आसी मिहिलाए पच्चयंतम्मि।तइया रायरिसिम्मि,णमिम्मि अभिनिक्खमंतम्मि॥ व्याख्या-कोलाहल:-विलपिताऽऽक्रन्दितादिकलकलः, कोलाहल एव कोलाहलकः स भूतः-जातो यस्मिन् तत् कोलाहलकभूतम् आसीत्' अभूत् मिथिलायां सर्व गृहविहारादीति गम्यते । 'प्रव्रजति' प्रत्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासौ राज्याऽवस्थामाश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः तस्मिन् नमो 'अभिनिष्कामति' गृहानिर्गच्छतीति सूत्रार्थः ॥ ५॥ पुनरत्रान्तरे यदभूत्तदाहअन्भुट्टियं रायरिसिं, पञ्चजाठाणमुत्तमं सक्को । माहणरूवेण इम, तदा हि वयणमब्बवी ॥६॥ व्याख्या-'अभ्युत्थितम्' अभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानम्-आश्रयः ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन् , 'उत्तमे'
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy