SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । S भावः। “इत्थि" ति स्त्रियः “विप्पजहे" त्ति विप्रजह्यात् । पूर्वत्र नारीग्रहणाद् मनुष्यस्त्रिय एवोक्ताः, इह पुनर्देवतिर्यक्सम्बन्धि न्योऽपि त्याज्यतया उच्यन्ते इति न पौनरुक्त्यम् , उपदेशत्वाद्वा । 'अनगारः' प्राग्वत् , किं पुनः कुर्यात् ? इत्याह-धर्ममेव' ब्रह्मचर्यादिरूपम् , चस्यावधारणार्थत्वात् , 'पेशलम्' इह परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं 'ज्ञात्वा' अवबुध्य 'तत्रे'ति धर्मे 'स्थापयेत्' निवेशयेत् 'भिक्षुः' यतिः आत्मानं विषयाभिलाषनिषेधादिति सूत्रार्थः ॥१९॥ अध्ययनार्थोपसंहारमाह इइ एस धम्मे अक्खाए, कविलेणं च विसुद्धपन्नणं । तरिहिंति जे उ काहिंति, तेहिं आराहिया दुवे लोगु ॥२०॥ त्ति बेमि ॥ व्याख्या-'इती'त्यनेन प्रकारेण 'एषः' अनन्तरोक्तरूपः 'धर्मः' यतिधर्मः 'आख्यातः' कथितः। केन? इत्याह| 'कपिलेन' इत्यात्मानमेव निर्दिशति, पूर्वसङ्गतिकत्वाद् अमी मद्वचनतः प्रतिपद्यन्तां धर्ममिति । 'चः' पूरणे । 'विशुद्धप्रज्ञेन' निर्मलावबोधेन, अतोऽर्थसिद्धिमाह-"तरिहिंति" त्ति तरिष्यन्ति भवाम्भोधिमिति शेषः। 'ये' इत्यविशेषाभिधाने, | 'तु' पूरणे, ततोऽविशेषत एव तरिष्यन्ति ये 'करिष्यन्ति' अनुष्ठास्यन्ति प्रक्रमादमुं धर्मम् । अन्यच्च तैः 'आराधितो' सफलीकृतौ 'द्वौ' द्विसंख्यौ 'लोको' इहपरलोकावित्यर्थः, इह महाजनपूज्यतया परत्र च निःश्रेयसाऽभ्युदयप्राप्त्येति सूत्रार्थः ॥ २० ॥ 'इतिः' परिसमाप्तौ ब्रवीमीति प्राग्वदिति ॥ अष्टम कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्। ॥१३२॥ ॥१३२॥ इति श्रीनेमिचन्द्रसूरिविनिर्मितायां उत्तराध्ययनलघुटीकायां सुख बोधायां कापिलीयाख्यं अष्टममध्ययनं समाप्तम् ॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy