________________
अष्टम
श्रीउत्तरा- ध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥१३१॥
ये लक्षणादि प्रयुञ्जते । यतश्चैवमुत्तरगुणविराधनायां दोषस्ततस्तदाराधने यतितव्यमिति भाव इति सूत्रार्थः ॥१५॥ आह| किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाहकसिणं पिजो इमंलोयं,पडिपुन्नं दलिज एगस्स।तेणावि से ण संतुस्से, इति दुप्पूरए इमे आया॥१६॥ । व्याख्या-'कृत्स्नमपि' परिपूर्णमपि 'यः' सुरेन्द्रादिः इमं 'लोक' जगत् 'प्रतिपूर्ण' धनधान्यहिरण्यादिभृतं | "दलिज्ज" त्ति दद्यात् , किं बहुभ्यः ? इत्याह-"एगस्स" त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनाऽपि' धनधान्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया। "से" इति सः 'न सन्तुष्येत्' न हृष्येत् । किमुक्तं भवति ?-ममैतावइदताऽनेन परिपूर्णता कृतेति न तुष्टिमाप्नुयात् । उक्तं हि-"न वहिस्तृणकाष्ठेषु, नदीभिर्वा महोदधिः । न चैवात्माऽर्थसारेण, शक्यस्तर्पयितुं कचित् ॥१॥ यदि स्याद्रत्नपूर्णोऽपि, जम्बूद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य जिनैः स्मृतः॥२॥" 'इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन, दुःखेन-कृच्छ्रेण पूरयितुं शक्यो दुष्पूरो दुष्पूर एव दुष्पूरकः। "इमे" त्ति अयं प्रत्यक्षः 'आत्मा' जीवः, एतदिच्छायाः परिपूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ किमिति न
कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्।
सन्तुष्यति ? इति प्रत्यक्षः 'आत्मा' जीवः, एतान्यायन, दुःखेन-कृच्छ्रेण पूरयितुं याप्त
जहा लाभो तहा लोभो, लाभा लोभो पवडइ । दोमासकयं कज्ज, कोडीए वि न निहियं ॥१७॥
व्याख्या-'यथा' येन प्रकारेण 'लाभः' अर्थाऽवाप्तिः 'तथा' तेन प्रकारेण लोभः। किमेवम् ? इत्याह-लाभालोभः 'प्रवर्द्धते' वृद्धिं याति, इह च 'लाभाल्लोमः प्रवर्द्धते' इति वचनात् यथा तथेत्यत्र वीप्सा गम्यते, ततश्च यथा यथा लाभस्तथा तथा लोभो भवतीत्युक्तं भवति । लाभाल्लोभः प्रवर्द्धते इत्यपि कुतः ? इत्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं 'कार्य' प्रयोजनम् तच्चेह दास्याः पुष्पताम्बूलमूल्यरूपं 'कोट्याऽपि' सुवर्णशतलक्षात्मिकयाऽपि 'न निष्ठितं न निष्पन्नम् ,
॥१३१॥