________________
कपिलकेवलिना साधु
थोवमद्धाणं ॥ ६ ॥ पुरिसंसयमहिलाए, पुरिसस्स य दाहिणा जहुत्तफला । महिलंसपुरिसमहिलाण होति वामा जहुत्त- फला ॥७॥ इत्यादि ॥ चः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते, कोऽर्थः?–तदभिधायकानि शास्त्राणि व्यापारयन्ति । पुनः 'ये' इत्युपादानं लक्षणादिभिः पृथक्सम्बन्धसूचनार्थम् । ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते न तु समस्तान्येव, ते किम् ? इत्याह-'न हु' नैव 'ते' एवंविधाः श्रमणाः साधवः 'उच्यन्ते' अभिधीयन्ते । इह च पुष्टाऽऽलम्बनं विनैतव्यापारणे एवमुच्यत इति सूत्रार्थः ॥ १३ ॥ ते चैवंविधा यद्वाप्नुवन्ति तदाहइह जीवियं अणियमेत्ता, पन्भट्ठा समाहिजोएहिं ते कामभोगरसगिद्धा, उववजंति आसुरेकाए १४ __ व्याख्या-'इह' जन्मनि 'जीवितम्' असंयमजीवितम् 'अनियम्य' द्वादशविधतपोविधानादिनाऽनियत्र्य 'प्रभ्रष्टाः च्युताः समाधिः-चित्तस्वास्थ्यं तत्प्रधाना योगाः-शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः, अनियत्रितात्मनां हि पदे | पदे तद्धंशसम्भव इति, 'ते' अनन्तर मुक्ताः कामभोगेषु-अभिहितस्वरूपेषु रसेषु च-मधुरादिषु गृद्धाः-अभिकालावन्तः | कामभोगरसगृद्धाः, भोगान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धिविषयताख्यापनार्थम् , 'उपपद्यन्ते' जायन्ते 'आसुरे' असुरसंबन्धिनि काये । इदमुक्तं भवति–एवंविधाः किञ्चित्कादाचित्कमनुष्ठानं कुर्वन्तोऽप्यसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि च्युतास्ते किमवाप्नुवन्ति ? इत्याह
तत्तोऽवि य उवहित्ता, संसारं बहुं अणुपरियतंति।
बहुकम्मलेवलित्ताणं, बोही होइ सुदुल्लभा तेसिं ॥ १५॥ व्याख्या-ततोऽपि चासुरनिकायाद् 'उद्धृत्य' निःसृत्य 'संसारं' चतुगेतिरूपं 'बहुं विपुलं "अणपरियति" 'अनुपरियन्ति' सातत्येन पर्यटन्ति । किञ्च बहुकर्मलेपलिप्तानां 'बोधिः' प्रेत्यजिनधर्मावाप्तिर्भवति सदुर्लभा 'तेषाम्'