________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघु
वृतिः ।
॥ १२९॥
व्याख्या - ये 'लक्षणं च' शुभाशुभसूचकं पुरुषलक्षणादि । तद्यथा - अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाऽऽज्ञा, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥ तथा —-पद्म-वज्रा ऽङ्कुशच्छत्र- शङ्ख-मत्स्यादयस्तले । पाणि-पादेषु दृश्यन्ते, यस्याऽसौ श्रीपतिः पुमान् ॥ २ ॥ उत्तुङ्गाः पृथुलास्ताम्राः, स्निग्धा दर्पणसन्निभाः । नखा भवन्ति धन्यानां धनभोगसुखप्रदाः ॥ ३॥ सितैः श्रमणता ज्ञेया, रूक्षपुष्पितकैः पुनः । जायते किल दुःशीलो, नखैर्लोकेऽत्र मानवः | ॥ ४ ॥ शुद्धाः समाः शिखरिणो, दन्ताः स्निग्धघनाः शुभाः । विपरीताः पुनर्ज्ञेया, नराणां दुःखहेतवः ||५|| द्वात्रिंशद्दशनो राजा, भोगी स्यादेकहीनकः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान्न सुन्दरः || ६ || स्तोकदन्ताऽतिदन्ता ये, श्यामदन्ताश्च ये नराः । मूषकैः समदन्ताश्च, ते पापाः परिकीर्त्तिताः ॥ ७ ॥ अङ्गुष्ठयवैराढ्याः, सुतवन्तोऽङ्गुष्ठमूलजैञ्च यवैः । ऊर्द्धाकारा रेखा, पाणितले भवति धनहेतुः ||८|| वामावर्त्तो भवेद्यस्य, वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो, मिक्षाम| द्यात् स रूक्षिकाम् ||९|| दक्षिणो दक्षिणे भागे, यस्याऽऽवर्त्तोऽस्ति मस्तके । तस्य नित्यं प्रजायेत, कमला करवर्त्तिनी ॥१०॥ यदि स्याद्दक्षिणे वामो, दक्षिणो वामपार्श्वके । पश्चात्काले ततस्तस्य, भोगा नास्त्यत्र संशयः ॥ ११ ॥ उरोमुखललाटानि, पृथूनि सुखभागिनाम् । गम्भीराणि पुनस्त्रीणि, नाभिः सत्त्वं स्वरस्तथा ॥ १२॥ केश - दन्त - नखाः सूक्ष्मा, भवन्ति सुखहेतवः । कण्ठः पृष्ठं तथा जबे, हस्वं लिङ्ग पूजितम् ॥१३॥ रक्ता जिह्वा भवेद्धन्या, पाणिपादतलानि च । पृथुलाः पाणिपादाव, धन्यानां दीर्घजीविनाम् ||१४|| स्निग्धदन्तः शुभाऽऽहारः, सुभगः स्निग्धलोचनः । नरोऽतिह्रस्वदीर्घाश्च स्थूलाः कृष्णाश्च निन्दिताः || १५ || पञ्चभिः शतमुद्दिष्टं, चतुर्भिर्नवतिस्तथा । त्रिभिः षष्टिः समुद्दिष्टा, लेखाद्वैर्भालवर्त्तिभिः ॥ १६ ॥ चत्वारिंशत्पुनः प्रोक्तं, वर्षाणि नरजीवितम् । ताभ्यां द्वाभ्यां तथैकेन, त्रिंशद्वर्षाणि जायते ॥ १७ ॥ कुशीला श्यामलोलाक्षी, रोमजङ्घा च भर्तृहा । महिलोन्नतोत्तरोष्ठी, नित्यश्च कलहप्रिया ॥ १८ ॥ इत्यादि ॥ 'स्वनं च' शुभाशुभफलसूचकम् । तद्यथा-
अष्टमं कापिलीयमध्ययनम् ।
कपिलकेवलिना साधुधर्मकथनम् ।
॥ १२९ ॥