SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ कपिलकेव लिना साधु धर्मकथनम्। न भवेत् भिक्षादः । अनेन रागपरिहार उक्तः, द्वेषपरिहारोपलक्षणं चैतत् , ततश्च रागद्वेषरहितो भुञ्जीत इत्युक्तं भवति । शायदुक्तम्-"रागहोसविमुक्को भुजिज्जा निजरापेहि" त्ति सूत्रगर्भार्थः ॥ ११ ॥ अगृद्धश्च रसेषु यत् कुर्यात् तदाह पंताणि चेव सेवेजा, सीयपिंडं पुराणकुम्मासं । अदु बुक्कसं पुलागं वा, जवणहाए निसेवए मंथु ॥१२॥ व्याख्या-"पंताणि चेव" त्ति 'प्रान्तान्येव' नीरसान्येव 'सेवेत' भुञ्जीत न तु स्निग्धमधुराणि, तेषां मोहोदयहेतुत्वात् । कानि पुनस्तानि ? इत्याह-'शीतपिण्ड' शीताऽऽहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह–'पुराणाः' प्रभूतवर्षधृताः 'कुल्माषा:' राजमाषाः, एते हि पुराणा अत्यन्तपूतयो नीरसाश्च भवन्तीति तद्ब्रहणम् , उपलक्षणं चैतत् पुराणमुद्गादीनाम् । “अदु" इत्यथवा “बुक्कसं" मुद्माषादिनखिकानिष्पन्नमन्नम् 'पुलाकम्' असारं वल्लचनकादि, 'वा' समुच्चये, "जवणट्ठाए" त्ति 'यापनार्थ शरीरनिर्वाहार्थ 'निषेवेत' उपभुञ्जीत । 'यापनार्थम्' इत्यनेनैतत् सूचितम्-यदि शरीरयापना भवति अनेन ततस्तदेव निषेवेत, यदि तु अतिवातोद्रेकादिना तद्यापनैव न स्यात् ततो न निषेवेताऽपि, गच्छगतापेक्षमेतत् , तन्निर्गतश्चैतान्येव निषेवेत, तस्य तथाविधानामेव ग्रहणानुज्ञानात् । “मं| च" बदरादिचूर्णम्, चस्य गम्यमानत्वात् , अतिरूक्षतया चास्य प्रान्तत्वम् । पुनः क्रियाभिधानं च न सकृदेव आप्तान्यमूनि सेवेत किन्त्वनेकधाऽपि इति ख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ यदुक्तं शुढेषणाखात्मानं स्थापयेदिति तद्विपर्यये बाधकमाह जे लक्खणं च सुविणं च, अंगविजं च जे पउंजंति । ण हुते समणा वुचंति, एवमायरिएहिमक्खायं ॥१३॥ "रागद्वेषविमुक्तो भुजीत निर्जराप्रेक्षी" इति । अतिशत १२ ॥ यदुक्तं शाखणं च सुविण एवमायरिया
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy